________________
न्यायकोशः।
३६७ मते क्वचित् समभिव्याहृतपदीयशक्तिव्यञ्जकत्वम् । यथा प्रहार इत्यादौ प्रादिनिपातानां प्रहरणाद्यर्थद्योतकत्वम् (ल० म० )। अत्र च धातोरेव शक्त्या प्रहारविहाराद्यर्थबोधकत्वसंभवेनोपसर्गाणां द्योतकत्वमेव इति बोध्यम् । अत्र वैयाकरणानां गाथा श्रूयते धातूनामनेकार्थकत्वम् इति ( ल० म० धात्वर्थ० पृ० ८ )। तदुक्तम् उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ इति ( सि० को०)। [ग] कचित् समभिव्याहृतगतवृत्त्युद्धोधकत्वम् । [घ] क्वचित्तु क्रियाविशेषाक्षेपकत्वम् । यथा प्रादेशं विलिखतीत्यादौ । अत्र विर्विमानक्रियाक्षेपकः । तथा च प्रादेशं विमाय लिखति इत्यर्थोवगम्यते । यथा वा अथ शब्दानुशासनम् इत्यत्राथशब्दस्य प्रारम्भक्रियाक्षेपकत्वं कैयटादावुक्तम् ( ल० म० धात्वर्थ० पृ० ७)। [ङ ] कचित्तु संबन्धपरिच्छेदकत्वम् । यथा सर्पिषोपि स्यात् इत्यादौ कर्मप्रवचनीयानां द्योतकत्वम् (ल० म० धात्वर्थ० पृ० ७ ) । अत्र बिन्द्वध्याहारेणापेः पदार्थद्योतकता । अपिः क्रियाया स्वद्योत्यबिन्दुदौलभ्यप्रयुक्तदौर्लभ्यस्यापि द्योतकः। एवं च सर्पिरवयव बिन्दुकर्तृका तद्विन्दुदौलभ्यप्रयुक्तदौर्लभ्यवती
संभावनाविषयीभूता सत्ता इति बोधः (ल० म० सुब० पृ० ९४-९५)। द्रवत्वम्-१ (गुणः ) [क] स्यन्दनकर्मकारणम् (प्रशस्त० पृ० ३३ )।
द्रवत्वं पृथिव्यप्तेजोवृत्ति द्वीन्द्रियग्राह्यम् असमवायि निमित्तं च कारणम्। तत्र क्रियायामसमवायि संग्रहे.तु निमित्तं कारणम् । [ख] आद्यस्यन्दनासमवायिकारणम् तत्र द्वितीयादिव्यापारजनकवेगवारणाय आद्य इति स्यन्दनस्य विशेषणम् ( वाक्य० १ पृ. ९) (दि० गु० पृ० २३२ )। द्रवत्वं द्विविधम् । सांसिद्धिकम् नैमित्तिकं च । तत्र सांसिद्धिकम् अग्न्यादिसंयोगाजन्यम् । स्वाभाविकम् इत्यर्थः (वाक्य०१ पृ० ९) हिमकरकादौ चादृष्टविशेषेण घनीभावेन सांसिद्धिकद्रवत्वप्रतिबन्धः कल्प्यते (सि. च० १ पृ० ७ ) । एवं च हिमकरकादावपि सांसिद्धिकं द्रवत्वमस्त्येव । न च तत्र नैमित्तिकं द्रवत्वं युक्तम् । द्रुते घृते घृतत्वादिवत् करकात्वोपलम्भापत्तः । नैमित्तिकद्रवत्वस्य निमित्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org