________________
न्यायकोशः ।
कर्तृनिष्ठः । यथा गां दोग्धि पय इत्यादौ । अत्र वायुर्वृक्षं गां दोग्धि इति प्रयोगवारणाय द्रवद्रव्येति पदम् । मेघो जलं दोग्धि इति वारणाय विशेषः इति पदं दत्तम् । अत्र विशेषो दुहधातुगम्यः । इत्थं च द्रवद्रव्येति न देयमित्यपि वदन्ति । अत्र धात्वर्थघटके विभागे गाम् इत्यस्य क्रियायां पयः इत्यस्य चान्वयात् गोवृत्तिविभागानुकूल पयोवृत्तिक्रियानुकूलकृतिमान् इति वाक्यार्थः (का० वा० पृ० २ ) । [घ] मोचनानुकूलव्यापारः । यथा गां पयो दोग्धि गोप इत्यादी दुहेरर्थः । अत्र दुह्यर्थघटकमोचने गोराधेयत्वेन पयसः कर्मत्वेन ( कर्मतानिरूपकत्वेन ) अन्वयात् पयः कर्मताकं यगोवृत्तिमोचनं तदनुकूलव्यापारवान् इत्यकारको बोधः | अत्रेदं बोध्यम् । मोचनं च बहिः क्षरणावच्छिन्नव्यापारः । तदनुकूलव्यापारो दोहनम् । अतः धात्वर्थतावच्छेद की भूतं ( धात्वर्थतावच्छेदकतायामवच्छेदकम् ) बहिः क्षरणरूपं फलमादाय पयसः गौणं कर्मत्वम् । मोचनात्मकं च फलमादाय गो: मुख्यं कर्मत्वम् इति । एवं च दुहादयः फलावच्छिन्न क्रिया हेतुव्यापारवाचित्वादेव द्विकर्मका भवन्ति इति ( श० प्र० श्लो० ७३ पृ० ९८ ) । [ ङ ] निःसरणमात्रम् । यथा दुग्धेस्मै सर्व कामं यो वाचो दोह: ( छान्दो० उ० ) इत्यादौ । यथा वा न कर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति ( महाभा० व० श्लो० ११६५ ) इत्यादौ । यत्र धर्मदुघा भूमि: सर्वकामदुघा मही । दोग्धि स्माभीप्सितानर्थान् यजमानस्य भारत || ( भाग० ४।१९।७ ) इत्यादौ च दुहेरर्थः ।
1
३६६
द्यूतम् - अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते ( मिताक्षरा २।१९९ ) । द्योतकत्वम् – [क] अर्थविशेषे तात्पर्यग्राहकत्वम् ( चि० ४ ) ( न्या०
म० ४ पृ० १८ ) ( नील० ) । यथा प्रजयतीत्यादौ प्रशब्दस्य द्योत - कत्वम् । जयतिरत्र प्रकृष्टजयलक्षकः । प्रशब्दस्तु तात्पर्य ग्राहकः ( न्या० म० ४ पृ० १८ ) । यथा वा चित्रगुमानयेत्यादौ चित्रपदस्य द्योतकत्वम् । अत्र च गोपदेनैव लक्षणया चित्रगोस्वामिबोधनाश्चित्रपदस्य द्योतकत्वमेब इति ज्ञेयम् (मु० ४ पृ० १८२ ) । [ ख ] शाब्दिकानां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org