________________
न्यायकोशः।
३६५ द्रोणं कर्मत्वम् इति विवेकः। गां दोग्धि पय इत्यादौ द्विकर्मकधातुसमभिव्याहृतगवादिपदोत्तरद्वितीया क्रियाजन्यफलशालित्वादन्यदेव कर्मत्वं बोधयति । कारकाधिकारीयेण अकथितं च ( पा० सू० १।४।५१ )। इत्यनेनापादानत्वादिभिन्नधातुप्रतिपाद्यान्वयिधर्मान्तरावच्छिन्नस्यापि कर्मसंज्ञाविधानात् इति (ग० व्यु० का० २ पृ० ४३ )। अन्ये तु गां दोग्धि पय इत्यादी गोपदोत्तरद्वितीयाया वृत्तित्वमर्थः । तस्य धात्वर्थघटकविभागेन्वयः । शाब्दबोधस्तु पूर्ववदेव ज्ञेयः इत्याहुः । अत्रेदं बोध्यम् । अस्य दुहेः गौणे कर्मणि लकारादि । तत्रोक्तम् प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् । अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः ॥ इति ( ग० व्यु० का० २ पृ० ४४ ) ( वाच० )। इदं चात्रावधेयम् । धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वम् इत्यत्र धात्वर्थतावच्छेदकत्वस्य धातुवृत्तिग्रहविशेष्यांशे साक्षाद्विशेषणत्वरूपत्वम् इत्यतो न तादृशं कर्मत्वम् अत्र प्रवर्तते इति । दुह्यते गौः क्षीरमित्यादौ क्षरणजन्यविभागाश्रयत्वं गवादिनिष्टमप्रधानकर्मत्वमाख्यातार्थः । अप्रधाने दुहादीनाम् इत्यनुशासनात् । क्षीरवृत्तित्वस्य धात्वर्थक्षरण एवान्वयः । आख्यातार्थक्षरणे धात्वर्थव्यापारान्वयः । तथा च विभागावच्छिन्नक्षीरनिष्टक्षरणानुकूलव्यापारजन्यक्षरणजन्यविभागाश्रयो गौः इत्याकारको बोधः (ग० व्यु० का० २ पृ० ४४) । यथा वा तेषु तेषु तु पात्रेषु दुह्यमाना वसुंधरा ( हरिवं० श्लो० ८१ ) इत्यादौ दुहेरर्थः ( वाच०)। अत्रादिशब्दग्राह्येषूदाहरणान्तरेषु द्विकर्मकत्वादिविशेषो ज्ञेयः । यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥ ( कुमार० स० १ श्लो० २) इत्यादौ । यः पयो दोग्धि पाषाणम् पयो घटोनीरपि गा दुहन्ति (भट्टिः) इत्यादौ च दुहेर्द्विकर्मकत्वम्। दुहेरन्यकर्मकत्वाविवक्षायामेककर्मकत्वमपि। यथा दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम् ( मनुः ) इस्यादौ । यथा वा दुग्ध्वा पयः पत्रपुटे मदीयम् (रघु० स० २ श्लो० ६५ ) इत्यादी च। [ग] द्रवद्रव्यविभागानुकूलक्रियानुकूलव्यापारविशेषः। स च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org