________________
३६४
न्यायकोशः • भवेक्लिष्टम् । अविमृष्टविधेयांशं विरुद्धमतिकृत् समासगतमेव ॥
इति ( दोषाः १८) ( काव्य० प्र० उ० ७ श्लो० ५०-५१ )। . एवम् वाक्यमात्रगतदोषाः रसदोषाः साक्षात्परंपरया वा तत एव विज्ञेयाः। ७ वातपित्तकफजाः इति त्रयो भ्रमदोषाः इति भिषजः प्रवदन्ति । अत्रोच्यते । वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः । विकृताविकृता देहं नन्ति ते वर्धयन्ति च ॥ इति ( वाग्भट ० )। अत्र विशेषः । चिरज्वरे वातकफोल्बणे वा त्रिदोषजे वा दशमूलमिश्रः । किराततिक्तादिगणः प्रयोज्यः शुद्ध्यर्थिने वा त्रिवृताविमिश्रः ॥ इति ( चक्रदत्त० ) । अत्रार्थे दोषशब्दे दुष वैकृत्ये इति दुषधातोः करणे घञ् । तथा चोक्तम् धातवश्व मलाश्चापि दुष्यन्त्येभिर्यतस्ततः । वातपित्तकफा एते त्रयो दोषा इति स्मृताः ॥ इति ( वाग्भट० ) । अत्र द्विषष्टिर्दोषभेदाः इति सुश्रुतकारा आहुः । ८ अनुद्योगदेशान्तरापर्यटनदर्शनीयवस्त्वाद्यनवलोकनादयो दोषाः इतीदानीतना विद्वन्मन्याः पाश्चात्याश्च
केचिन्मन्यन्ते । दोहनम्- [क] क्षरणानुकूलव्यापारः । यथा गां पयो दोग्धि मैत्र
इत्यादी दुहेरर्थः । अत्र गोपदोत्तरद्वितीयाया अर्थो विभागः । तस्य जनकत्वसंबन्धेन क्षरणेन्वयः । विभागे चाधेयतासंबन्धेन प्रकृत्यर्थगवादेरन्वयः। प्रधानकर्मक्षीरवाचकपयःपदोत्तरद्वितीयार्थो वृत्तित्वम् । तस्य धात्वर्थतावच्छेदके क्षरणरूपे फलेन्वयः । एवं च गोनिष्ठविभागानुकूलपयोनिष्ठक्षरणानुकूलव्यापारकर्ता मैत्रः इति बोधः । [ख] वस्तुतस्तु विभागावच्छिन्नक्षरणानुकूलो व्यापारः । अत्रायं विशेषो ज्ञेयः । यत्र च क्षरणानुकूलव्यापारमानं धात्वर्थतया विवक्षितम् क्षरणान्वयिविभागश्च विभक्त्यर्थतया तत्रापादानत्वबोधिका पञ्चमी इति (ग० व्यु० का० २ पृ० ४४ )। गां दोग्धि पयः दुह्यते गौः क्षीरमित्यादौ अकथितं च (पा० सू० १।४।५१ ) इत्यनेन सूत्रेण गोरपादानत्वाद्यविवक्षया कर्मत्वं बोध्यम् । तत्र धात्वर्थतावच्छेदकीभूतक्षरणस्य पयोमें वृत्तित्वात्पयसो मुख्यं कर्मत्वम् । गोस्तु तादृशक्षरणजन्यविभागाश्रयत्वा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org