________________
न्यायकोशः।
३६३ प्रत्येक्षविषयत्वे सतीत्युक्त्या शरीरादृष्टेश्वरेच्छादौ नातिव्याप्तिः । यागादिगोचरप्रमावारणाय प्रमान्यत्वे सतीत्युक्तम् (गौ० वृ० १।१।१८ )। अथवा दोषत्वं प्रमाकारणीभूताभावप्रतियोगित्वम् (मू० म० प्रामा० उत्प० पृ. ३२४ )। दोषाणां त्रयः पक्षाः रागपक्षः द्वेषपक्षः मोहपक्षश्च । तत्राद्यः पक्षः कामः मत्सरः स्पृहा तृष्णा लोभः माया दम्भः इति । द्वितीयः पक्षः क्रोधः ईर्ष्या असूया द्रोहः अमर्षः अभिमानः इति । तृतीयः पक्षः विपर्ययः संशयः तर्कः मानः प्रमादः भयम् शोकः इति (गौ० वृ० ४।१।३) (वात्स्या० ४।१।३ )। ३ व्यावृत्तिव्यवहारैतदन्यतरप्रयोजनविघटको धर्मः । स च लक्षणदोषः इति व्यवह्रियते । यथा एकशफत्वस्य गोर्लक्षणस्यासंभवः । स च दोषस्त्रिविधः । अव्याप्तिः अतिव्याप्तिः असंभवश्च ( नील० १ पृ०१ )। ४ अनुमितितत्करणपरामर्शतदन्यतरप्रतिबन्धकयथार्थज्ञानविषयः (त० दी० पृ० २४ )। अथवा यद्विषयकत्वेन ज्ञानस्यानुमितितत्कारणीभूतपरामर्शतदन्यतरप्रतिबन्धकत्वं सः । स च दोषः पञ्चविधः सव्यभिचारत्वम् ( व्यभिचारः) विरोधः सत्प्रतिपक्षः असिद्धिः बाधश्च इति (चि० २ पृ० ८३-८४) (न्या० बो० २ पृ० १७ ) । स च हेतुदोषः हेत्वाभासश्च इत्यपि व्यवह्रियत इति विज्ञेयम् । तल्लक्षणादिकं च हेत्वाभासशब्दव्याख्यानावसरे सविस्तरं संपादयिष्यत इत्यत्रैव विरम्यते । ५ विध्युल्लङ्घनजन्यः अदृष्टविशेषो दोषः (प्रत्यवायः ) इति मीमांसका आहुः । गुरुतल्पगमनाभक्ष्यभक्षणादिजन्यपापविशेषः इति धर्मज्ञाः पौराणिकाश्च संजगदिरे। ६ काव्यज्ञास्तु अपकर्षप्रयोजको वस्तुनिष्ठो धर्मविशेषः ( वाच०)। अत्रोच्यते । स्याञ्चेतो विशता येन सक्षतारमणीयता। शब्देर्थे च कृतोन्मेषं दोषमुद्घोषयन्ति तम् ।। ( चन्द्रालो० ) इति । अथवा मुख्यार्थहतिः (काव्य० प्र० उ० ७ श्लो० ४८)। यथा यतिभङ्गश्रुतिकटुत्वादयः पदादिगतदोषाः संभवन्ति इति वदन्ति । अत्रोच्यते। दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम् । निहतार्थमनुचितार्थ निरर्थकमवाचकं त्रिधाश्लीलम् ॥ संदिग्धमप्रतीतं ग्राम्यं नेयार्थमथ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org