________________
३६२
न्यायकोशः। दैशिकम्-१ देशकृतम् देशसंबन्धि वा । यथा परत्वमपरत्वं च द्विविधं
परिकीर्तितम् । दैशिकं कालिकं चापि मूर्त एव च दैशिकम् ॥ (भा० . ५० श्लो० ११२) इत्यादौ । अत्रार्थे देशेन निवृत्तम् दैशिकम् इति विग्रहो
द्रष्टव्यः (वाच०)। २ मन्त्राद्युपदेशकर्ता गुरुर्दैशिकः इति धर्मज्ञा आहुः। दैशिकविशेषणता—( स्वरूपसंबन्धः) अभावीयदैशिकस्वरूपसंबन्धः । __ यथा भूतले घटो नास्तीत्यादौ भूतलघटाभावयोः संबन्धः । दोषः-१ अप्रमाया असाधारणकारणम् (त० दी० गु० .पृ० ३६)।
अप्रमात्वाधिकदेशवृत्तिधर्मानवच्छिन्नाप्रमानिष्ठकार्यतानिरूपितकारणताशालीत्यर्थः (नील० गु० पृ. ३६-३७)। यथा दोषोप्रमाया जनकः प्रमायास्तु गुणो भवेत् । पित्तदूरत्वादिरूपो दोषो नानाविधः स्मृतः ॥ ( भा० ५० श्लो० १३२ ) इत्यादौ काचकामलपित्तमण्डूकवसाञ्जनादिर्धमोत्पादको दोषः (मु० गु० पृ० २११)। तथाहि शङ्ख पीतभ्रमे पित्तं दोषः । कचित् चन्द्रादेः स्वल्पपरिमाणभ्रमे दूरत्वं दोषः । कचिच्च वंशोरगभ्रमे मण्डूकवसाञ्जनम् । इत्येवंरूपदोषा अननुगता एव भ्रान्तिजनका इत्यर्थः (मु० गु० पृ० २११ )। २ प्रवर्तनालक्षणा दोषाः (गौ० १।१।१८ )। प्रवर्तना प्रवृत्तिहेतुत्वम् । अत्र विग्रहः । प्रवर्तना प्रवृत्तिजनकत्वम् । तदेव लक्षणं येषाम् इति (गौ० वृ० १११११८ )। दोषास्तु बुद्धिसमानाश्रयत्वादात्मगुणाः ( वात्स्या० ४।१।२ )। का पुनरियं प्रवर्तना । यथा अवशः प्रवर्तते तं प्रवर्तमानं रागादयः प्रवर्तयन्तीति । सेयं प्रवृत्तिहेतुत्वात्प्रवर्तनेत्युच्यते ( न्या० वा० १।१।१८ पृ० ८५ )। ज्ञातारं हि रागादयः प्रवर्तयन्ति पुण्ये पापे वा । यत्र मिथ्याज्ञानं तत्र रागद्वेषाविति । प्रत्यात्मवेदनीया हीमे दोषाः कस्मात् लक्षणतो निर्दिश्यन्त इति । कर्मलक्षणाः खलु रक्तद्विष्टमूढाः । रक्तो हि तत्कर्म कुरुते येन कर्मणा सुखं दुःखं वा भजते । तथा द्विष्टः तथा मूढः इति । दोषा रागद्वेषमोहा इत्युच्यमाने बहु नोक्तं भवतीति (वात्स्या० १११।१८) ( त० दी पृ० ४२) । अत्रत्यम् दोषलक्षणं च लौकिकप्रत्यक्षविषयत्वे सति प्रमान्यत्वे सति प्रवृत्तिजनकत्वम् । लौकिक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org