________________
३६१
न्यायकोशः ।
विशेषो दृष्टान्त इत्यालंकारिका आहुः । ३ शास्त्रम् । ४ मरणमिति काव्यज्ञा आहुः ( वाच० )।
1
I
दृष्टान्ताभासः – निदर्शनाभासशब्दवदस्यार्थोनुसंघेयः । दृष्टार्थकः -- ( प्रमाणशब्दः ) [क] यस्येह दृश्यतेर्थः स दृष्टार्थः (वात्स्या० ११८ ) । [ख] शब्दतदुपजी विप्रमाणातिरिक्तप्रमाणगम्यार्थकः शब्दः ( गौ० वृ० १|१|८ ) । यथा घटः पटः इत्यादिशब्दो दृष्टार्थकः । देवता - अनीन्द्रादयः । निरुक्ते दैवतखण्डे देवताभेदानाहं यास्कमुनिः । अग्यादिदेवपत्न्यन्तं देवताकाण्डमुच्यते । वाय्वादयो भगान्ताः स्युरन्तरिक्षस्थदेवताः ।। सूर्यादिदेवपत्न्यन्ता द्युस्थाना देवता इति । देवतानां प्राधान्यतस्त्रयस्त्रिंशत्त्वमुक्तम् । स्वस्वगणपत्नीसहितानां तासां त्रयस्त्रिंशत् कोटिसंख्याकत्वमुक्तं पद्मपुराणे उत्तरखण्डे । यथा सदारा विबुधाः सर्वे स्वानां गणैः सह । त्रैलोक्ये ते त्रयस्त्रिंशत्कोटिसंख्यातयाभवन् । इति (वाच० ) । देवतात्वं च । [क] मन्त्रकरणकविः कर्मकत्यागभागित्वेनोद्देश्यत्वम् ( चि० ४ ) ( त० प्र० ४ पृ० १२३ ) । मन्त्रप्रयोज्य हविः - संबन्धवत्त्वेनोद्देश्यत्वमिति यावत् । हविर्निष्ठं त्यागजन्यं फलम् स्वत्वम् । तदाश्रयतया ( तत्संबन्धितया ) उद्देश्यत्वम् इति वर्तुलार्थः । अत्र पदप्रयोजनं कथ्यते । स्वर्गसंबन्धितयोद्देश्यत्वस्य त्यागकर्तरि सत्त्वात्तत्रातिव्याप्तिवारणाय हविरिति । कोदात् कस्माददात् इति मत्रकरणघृतादिरूपहविःस्वत्वभागितयोद्देश्यत्वस्य प्रतिग्रहीतरि सत्त्वात्तत्रातिव्याप्तिवारणाय मन्त्रपदं त्यागकर्तृमत्रपरम् । तपोविद्भ्यः पृथग्दद्यात् इत्यादिना पार्वणादौ पत्न्या अपि स्वत्वभागितया तत्रातिव्याप्तिवारणायोद्देश्यत्वम् इति (त० प्र० ख० ४ पृ० १२३ ) । ख ] द्रव्यत्यागोद्देश्यत्वम् (ग० व्यु० का० १ पृ० ३ ) (कृष्ण०) । वेदबोधिता बाधितद्रव्यस्वामित्वप्रकारेणेच्छा.. विषयत्वमित्यर्थः (वै० सा० द०) । यथा अग्नये स्वाहा पितृभ्यः स्वधेत्यादावयादीनां चेतनानामेव देवतात्वम् (त० प्र० ४ पृ० १२३ ) । अत्र देवतात्वे प्रमाणम् अग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवताः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org