________________
न्यायकोशः।
३५९ दृकशक्तिः—हक्शक्तिरेकापि विषयभेदात्पञ्चविधोपचर्यते दर्शनं श्रवणं
मननं विज्ञानं सर्वज्ञत्वं चेति ( सर्व० सं० पृ० १६६ नकु० )। दृष्टान्तः-१ [क] लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः
(गौ० १।१।२५ )। लोकसाम्यमनतीता लौकिका नैसर्गिकं वैनयिक बुद्ध्यतिशयमप्राप्ताः । तद्विपरीताः परीक्षकास्तर्केण प्रमाणैरथं परीक्षितुमहन्तीति । यथा यमर्थ लौकिका बुध्यन्ते तथा परीक्षका अपि सोर्थो दृष्टान्तः । दृष्टान्तविरोधेन हि प्रतिपक्षाः प्रतिषेद्धव्या भवन्तीति । दृष्टान्तसमाधिना च स्वपक्षाः स्थापनीया भवन्तीति । अवयवेषु चोदाहरणाय कल्पत इति ( वात्स्या० १।१।२५ )। वृत्तिकारैरप्युक्तम् । लौकिकोप्राप्तशास्त्रपरिशीलनजन्यबुद्धिप्रकर्षः प्रतिपाद्य इति फलितोर्थः । परीक्षक: शास्त्रपरिशीलनप्राप्तबुद्धिप्रकर्षः प्रतिपादक इति फलितोर्थः । बुद्धेः साध्यसाधनोभयविषयिण्याः तदभावविषयिण्या वा साम्यमविरोधो यस्मिन्नर्थे सोर्थो दृष्टान्तः ( गौ० वृ० १।१।२५ )। [ख] यत्र लौकिकपरीक्षकाणां दर्शनं न व्याहन्यते सः ( वात्स्या० १।१।१ )। [ग] वादिप्रतिवादिनोः साध्यसाधनोभयप्रकारकतदभावद्वयप्रकारकान्यतरनिश्चयविषयः ( गौ० वृ० १३१२५)। [घ] प्रत्यक्षविषयोर्थः ( न्या० वा० १ पृ० १६)। किमुक्तं भवति लौकिकपरीक्षकाणां दर्शनाविघातहेतुरिति । एवं चात्मादिव्याप्तिरिति । दर्शनाविघातहेतुत्वेन दृष्टान्ते वर्ण्यमान आत्मादि व्याप्तं भवति ( न्या० वा० १ पृ० १६)। [3] व्याप्तिसंवेदनभूमिः ( सर्व० पृ० २३८ अक्ष० )। [च] वादिप्रतिवादिनोः संप्रतिपत्तिविषयोर्थः (त० भा० पृ० ४२ ) (दि०)। यथा पर्वतो वह्निमान्धूमान्महानसवदित्यादौ महानसो दृष्टान्तः (त० सं० )। दृष्टान्तो द्विविधः । साधर्म्यदृष्टान्तः वैधादृष्टान्तश्च । साधर्म्यदृष्टान्तः अन्वयदृष्टान्तः । स च साध्यसाधनोभयवत्तानिश्चयविषयः (दि. १ पृ० ३२)। वैधर्म्यदृष्टान्तश्च व्यतिरेकदृष्टान्तः। तत्राद्यः पर्वते वह्निसाधने धूमवत्त्वस्य हेतोर्महानसः । द्वितीयः तत्रैव धूमन हेतोमहाह्रदः इति ( त० भा० पृ० ४२) (त० सं० )। २ अर्थालंकार
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org