________________
न्यायकोशः। बाह्योपायसाध्यं च दुःखं द्वेधा।आधिभौतिकम् आधिदैविकं च । तत्राधिभौतिकं मानुषपशुपक्षिसरीसृपस्थावरनिमित्तम् । आधिदैविकं यक्षराक्षसविनायकग्रहावेशनिबन्धनं चेति ( सां० को०)। [च ] उपघातलक्षणं दुःखम् । विषाद्यनभिप्रेतविषयसांनिध्ये सति अनिष्टोपलब्धीन्द्रियार्थसंनिकर्षादधर्माद्यपेक्षादात्ममनसोः संयोगात् अमर्षोपघातदैन्यनिमित्तमुत्पद्यते । तदुःखम् अतीतेषु सर्पव्याघचौरादिषु स्मृतिजम् । अनागतेषु संकल्पजम् इति ( प्रशस्त० २ पृ० ३२) । २ दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रपञ्चिताः ( सर्व० सं० पृ० ४६ बौ० )। दुःखान्तः-मोक्षः । दुःखान्तो द्विविधः अनात्मकः सात्मकश्चेति ।
तत्रानात्मकः सर्वदुःखानामत्यन्तोच्छेदरूपः । सात्मकस्तु दृक्रियाशक्तिलक्षणमैश्वर्यम् ( सर्व० सं० पृ० १६६ नकुली० )। दुर्गा-नववर्षा कन्या ( कल्याणीशब्दे दृश्यम् )। दरत्वम् —दैशिकं परत्वम् ( मु० १ पृ०९३)। स च गुणविशेष एव
इति नैयायिकाः। वैशेषिकास्तु दिकती विप्रकर्षः न तु गुणः इत्याहुः । यथा दूरान्तिकादिधीहेतुरेका नित्या दिगुच्यते ( भा० ५० श्लो०४७ ) इत्यादौ । झळकीग्रामात्खेटकप्रामापेक्षया मणलूरग्रामस्य दूरत्वम् । अत्रेदं बोध्यम् । दूरत्वं च भ्रमविशेषे कारणम् । यथा चन्द्रादेः स्वल्पपरिमाणभ्रमे दूरत्वं दोषः कारणं भवति ( मुक्ता० गु० पृ० २११ )। अत्रोक्तम् दोषोप्रमाया जनकः प्रमायास्तु गुणो भवेत् । पित्तदूरत्वादि
रूपो दोषो नानाविधः स्मृतः ॥ (भा० ५० गु० श्लो० १३२) इति। दृषकत्वम् – सदोषसंपादकत्वम् । यथा विपक्षवृत्तित्वं साधारणत्वम् ।
तन्मात्रस्य दूषकत्वात् (चि० २ साधा० पृ० ८७ ) इत्यादौ । यथा - वा वेदविक्रयिणश्चैव वेदानां चैव दूषकाः । वेदानां निन्दकाश्चैव ते वै - निरयगामिनः ॥ ( भा० अनु० श्लो० १६४४ ) इत्यादौ । दक्षणम्-बाधकप्रमाणोपन्यासरूपयुक्तिभिः खण्डनम् ( वै० सा० द०)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org