________________
न्यायकोशः। मुखमालिन्यादि इति प्रशस्तपादाचार्यादयः (वै० उ० १०।१।१ पृ० ४१७ ) । कविकल्पलतायां लोकसिद्धानि कतिचिहुःखकारणानि दर्शितानि । तानि यथा पारतत्र्यम् आधिः व्याधिः मानच्युतिः शत्रुः कुभार्या नैःस्व्यम् कुप्रामवासः कुस्वामिसेवनम् बहुकन्याः वृद्धत्वम् परगृहवासः वर्षाप्रवासः भार्याद्वयम् कुभृत्यः दुईलकरणकृषिः इति । एवम् वराहपुराणादावपि कतिचिहुःखकारणान्युक्तानि तानि तत एव वेद्यानि ( वाच०)। [ख] प्रतिकूलवेदनीयम् ( वात्स्या० १।१।२ ) (त० सं० )। प्रतिकूलवेदनीयतया बाधनात्मकमित्यर्थः ( सर्व० पृ० २४६ अक्ष०)। अत्र प्रतिकूलत्वं च द्विष्टत्वम् । अत्रेदं बोध्यम् । दुःखं प्रतिकूलवेदनीयतया स्वतो द्वेषविषयः । दुःखसाधनं तु द्विष्टसाधनताज्ञानाद्वेषविषयः (वाच०) इति । दुःखत्वज्ञानादेव सर्वेषां दुःखं स्वाभाविकद्वेषविषयः। दुःखसाधनं तु द्विष्टसाधनत्वज्ञानाद्वेषविषयः (मु गु० पृ० २२० )। दुःख द्वेषविषयः इति वाक्यवृत्तिः ( वाक्य० गु० पृ० २१)। [ग] द्वेषाजन्यद्वेषविषयः (प्र० प्र० गु० पृ० १७ )। [घ] अधर्मजन्यम् सचेतसां प्रतिकूलम् (भा० ५० श्लो० १४६ )। अधर्ममात्रासाधारणकारणकगुण इत्यर्थः ( सि० च० पृ० ३५ )। तच्च दुःखमेकविंशतिभेदभिन्नम् । तथाहि शरीरम् षडिन्द्रियाणि षड्विषयाः षड्विधानि प्रत्यक्षाणि सुखं दुःखं चेति । तत्र शरीरं दुःखायतनत्वाहुःखम् । इन्द्रियाणि विषयाः प्रत्यक्षाणि च तत्साधनत्वात् । सुखं च दुःखानुषङ्गात् । दुःखं तु स्वरूपत एवेति । सिद्धान्तचन्द्रोदये च दुःखं चतुर्विधमित्युक्तम् ( सि० च० पृ० ३५.)। देहेन्द्रियादिकं दुःखजनकत्वाहुःखत्वेनोपचर्यते ( ता०र० श्लो० ३२)। [6] बुद्धितत्त्वस्य परिणामविशेषः । स च रजःकार्यः इति सांख्याः ( सां० कौ० )। अत्रोच्यते । दुःखं त्रिविधम् । आध्यात्मिकम् आधिभौतिकम् आधिदैविकं चेति । तत्राध्यात्मिक द्विविधम् । शारीरम् मानसं च । तत्र शारीरम् वातपित्तश्लेष्मणां वैषम्यनिमित्तम् । मानसं तु कामक्रोधलोभमोहभयेा विषादविषयविशेषादर्शननिबन्धनम् । सर्वं चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org