________________
३५४
न्यायकोशः ।
1
अत्र सूत्रम् इत इदमिति यतस्तद्दिश्यं लिङ्गम् (वै० २।२।१० ) इति । अस्मादिदं दूरम् अस्मादिदमन्तिकम् इति दैशिकपरत्वापरत्वबुद्धिर्यतस्तद्दिग्लिङ्गम् । तथा दैशिकपरत्वापरत्वासमवायिकारणसंयोगाश्रयतया दिक् सिध्यति (वै० वि० २।२।१० ) ( मु० १ ) । दिक्च पूर्वादिप्रत्ययैरनुमेया । तेषामन्यनिमित्तासंभवात् (त० भा० ) । दूरत्वसंनिहितत्वज्ञानाधीनपरत्वापरत्वानुमेयेति यावत् (प्र० प्र० ) ( त० कौ० पृ० ३ ) । तथा च तादृशपरत्वापरत्वे सासमवायिकारण के भावकार्यत्वाद्घटवत् इत्यनुमानं द्रष्टव्यम् । अत्रासमवायिकारणं च दिपिण्डसंयोगः तदाश्रयो दिगिति दिक्सिद्धिर्बोध्या । दिक् च पूर्वादिप्रत्ययलिङ्गा इति प्रशस्तपादैरुक्तम् ( प्रश० पृ० ८ ) मूर्त द्रव्यमवधिं कृत्वा मूर्तेष्वेव द्रव्येषु एतस्मादिदं पूर्वेण दक्षिणेन पश्चिमेन उत्तरेण पूर्वदक्षिणेन दक्षिणापरेण अपरोत्तरेण उत्तरपूर्वेण अधस्तात् उपरिष्टाच इति दश प्रत्यया यतो भवन्ति सा दिक् । अत्रोच्यते । कृत्वैकमवधिं तस्मादिदं पूर्वं च पश्चिमम् । इति निर्दिश्यते देशो यया सा दिगिति स्मृता ॥ इति । दिग्लिङ्गाविशेषाद्दिश एकत्वेपि परमर्षिभिः श्रुतिस्मृतिलोकसंव्यवहारार्थं मेरुं प्रदक्षिणीकृत्य वर्तमानस्य भगवतः सवितुर्ये संयुक्ता लोकपालपरिगृहीतदिक्प्रदेशास्तेषां प्राच्यादिभेदेन दशविधाः संज्ञाः कृताः । अतो भक्त्या दश दिशः सिद्धा: । तथा च दिग्दशविधा । प्राची अवाची प्रतीची उदीची आग्नेयी नैर्ऋती वायवी ऐशानी ऊर्ध्वा अधः इति (वै० उ० २।२।१० ) (वै० २।२।१५-१६ ) ( वराहपु० ) । तासामेव पुनर्देवतापरिग्रहवशाद्दश संज्ञा भवन्ति माहेन्द्री वैश्वानरी याम्या नैर्ऋती वारुणी वायव्या चान्द्रमसी ऐशानी ब्राह्मी नागी च इति ( प्रशस्त० पृ० ८ ) । प्राच्यादि - व्यवहारहेतुर्दिक् (त० सं ० ) । इयं प्राची इयं प्रतीची इत्यादिवाक्यप्रयोगरूपव्यवहारहेतुरित्यर्थः ( वाक्य० २ पृ० ५ ) । उदयाचलाद्युपाधियोगात्प्राच्यादिव्यवहार भागित्यर्थः ( प्र० प्र० ) । तथा च प्राच्यां इत्यादिव्यवहारबलादुदयाचलसंयोगादिलक्षणघटादिसंबन्धघटकस्वेन दिकूसिद्धि: ( प० मा० ) । सा चैका विभ्वी नित्या च (वै०
1
घटः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org