________________
३५३
न्यायकोशः। दान्तिकत्वम्-दृष्टान्तप्रयुक्तोपमेयत्वम् । यथा चन्द्रवन्मुखमित्यादी
मुखस्य दार्टान्तिकत्वम्। दासः-दीयतेस्मै स्वामिना सर्वं यथाभिलषितमिति दासः ( सर्व० सं०
पृ० १९१ प्रत्यभि० )। दासभेदा मिताक्षरायामुक्ताः । गृहजातस्तथा क्रीतो लब्धो दायादुपागतः । अनाकालभृतस्तद्वदाहितः स्वामिना च यः ॥ मोक्षितो महतश्चर्णायुद्धप्राप्तः पणे जितः । तवाहमित्युपगतः प्रव्रज्यावसितः कृतः ॥ भक्तदासश्च विज्ञेयस्तथैव वडवाहृतः । विक्रेता
चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥ ( मिताक्षरा २।१८२ )। दिकू-(द्रव्यम् ) अकालत्वे सत्यविशेषगुणा महती ( सर्व० पृ० २१९
औलू० )। दिक्चानियतोपाध्युन्नायिकास्ति (वै० उ० २।२।१० )। कालस्तु नियतक्रियासंबन्धघटक एवेति न तस्य प्राच्यादिसंबन्धघटकता (५० मा० )। अयं भावः । भवति हि यदपेक्षया यो वर्तमानः स तदपेक्षया वर्तमान एव इति कालो नियतोपाध्युन्नायकः । दिगुपाधौ तु नैवं नियमः । यं प्रति या प्राची तं प्रत्येव कदाचित्तस्याः प्रतीचीत्वात् इति (वै० उ० २।२।१०)। दिक् जगदाधारा निखिलकार्यनिमित्तकारणं च इति विज्ञेयम् ( सि० च० १ पृ० १० ) ( त० दी० १ पृ०१०)। अत्र शाब्दिकाः शब्दतन्मात्रपरिणाम एव दिक् इत्याहुः ( ल० म० लका० पृ०२०)। दिशो लक्षणं च प्राच्यादिव्यवहारजनकतावच्छेदकमुख्यविशेष्यत्वम् ( वाक्य० १ पृ० ५)। विभुत्वे सति दैशिकपरत्वापरत्वासमवायिकारणसंयोगाश्रयत्वाद्युपाधिरूपं दिक्त्वम् ( प० मा० )। साच दिक्. दूरान्तिकादिधीहेतुः (भा० प० श्लो० ४७ )। दूरत्वं दैशिकपरत्वम् । तच्च बहुतरमूर्तसंयोगविशिष्टपिण्डज्ञानादुत्पद्यते । अन्तिकत्वं तु तु दैशिकमपरत्वम् । तच्च अल्पतरमूर्तसंयोगविशिष्टपिण्डज्ञानादुत्पद्यते ( सि० च० १ पृ० १० )। तथा च इतोल्पतरसंयुक्तसंयोगाश्रयादिदं बहुतरसंयुक्तसंयोगाधिकरणं परम् इतश्च संयुक्तसंयोगभूयस्त्वाधिकरणादिदं संयुक्तसंयोगाल्पीयस्त्वाधिकरणमपरम् इति नियतदिग्देशयोः समानकालयोः पिण्डयोर्यतो द्रव्याद्भवति सा दिगित्यर्थः (वै० उ०२।२।१०)। ४५ न्या० को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org