________________
३५२
न्यायकोशः। इति ( वाच० )। २ परायत्तीकरणम् । तदायत्तीकरणं च तत्कर्तृकनिर्णेजनेच्छाप्रकाशको व्यापारः। यथा रजकस्य वस्त्रं ददातीत्यादौ ददात्यर्थः । निर्णेजनं च मलापकर्षः । अत्र ददात्यर्थैकदेशे कर्तृत्वे रजकस्य संबन्धविवक्षायां शैषिकी षष्ठी इति ज्ञेयम् (ग० व्यु. का० ४ पृ० ९६ ) । शैषिकी षष्ठी च षष्ठी शेषे ( पा० सू० २।३।५०) इत्यनेन सूत्रेण विधीयते । तदर्थश्च कारकप्रातिपदिकार्थातिरिक्तः संबन्धरूपोर्थः शेषः तद्विवक्षायां षष्ठी इति । ३ तत्कर्तृकताडनानुमतिप्रकाशकव्यापारः । यथा हन्तुः पृष्ठं ददातीत्यादी ददात्यर्थः । अत्रापि ददात्यर्थैकदेशे कर्तृत्वे हन्तुः संबन्धविवक्षायां षष्ठी इति ज्ञेयम् । एवम् संवाहकस्य चरणं ददातीत्यादावूहनीयम् (ग० व्यु०. का० ४ पृ० ९६ ) ( ल० म० सुब० पृ० १०१)। ४ उत्पादकव्यापारः । यथा शत्रवे भयं ददातीत्यादौ ददात्यर्थः । अत्र ददातेः जनयति इत्यर्थो भाक्तः । एवं च उत्पादकव्यापाररूपे धात्वर्थे भयरूपं यत् कर्म तद्योगितयोद्देश्यत्वाच्छन्वादेः संप्रदानत्वम् ( ग० व्यु० का० ४ पृ० ९५)। ५ संयोगविशेषानुकुलो व्यापारः। यथा खण्डिकोपाध्यायस्तस्मै चपेटां ददातीत्यत्र ददात्यर्थः । चपेटा प्रसृतकरतलम् ( ल० म० सुब० पृ० १०१)। ६ बोधनम् । यथा न शूद्राय मतिं दद्यात् ( मनु० अ० ४ श्लो० ८० ) इत्यादौ ददात्यर्थः । अत्र मतिशब्देन तजनकं वेदादिरूपं शास्त्रमुच्यते ( ल० म० सुब० पृ० १०१ ) । कुल्लूकभट्टस्तु मतिशब्देन दृष्टार्थोपदेश उच्यते धर्मोपदेशस्य पृथङिदेशात् इत्याह ( मनु० टी० ४।८०)। ७ छेदनम् । ८ पालनम् । ९ शुद्धिः ।
१० गजमदजलमिति काव्यज्ञा आहुः ( वाच० )। दायः–यद्धनं स्वामिसंबन्धादेव निमित्तादन्यस्य स्खं भवति तत् (मिताक्षरा
अ० २ श्लो० ११४ )। दायादबान्धवः-औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोत्पन्नोप
विद्धश्च दायादा बान्धवाश्च षट् (मिताक्षरा अ० २ श्लो० १३२)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org