________________
न्यायकोशः । दया–१ परदुःखप्रहरणेच्छा । यथा प्राणा यथात्मनोभीष्टा भूतानामपि ते तथा । आत्मौपम्येन सर्वत्र दयां कुर्वन्ति साधवः ॥ इत्यादौ । अत्रोच्यते । यत्नादपि परक्लेशं हतुं या हृदि जायते । इच्छा भूमिसुरश्रेष्ठ सा दया परिकीर्तिता ॥ इति ( वाच० )। २ शान्तिरसस्य व्यभिचारिभावो दया इति रसशास्त्रज्ञा वदन्ति । यथाह शान्तरसोपक्रमे रोमाश्चाद्याः स्वानुभावास्तथा स्युर्व्यभिचारिणः । निर्वेदहर्षस्मरणमतिभूतदयादयः ।।
इति ( सा० द०)। दर्पः-१ परावधीरणाहेतुश्चित्तवृत्तिविशेषः । यथा अहंकारश्च सर्वेषां पापबीजममङ्गलप् । ब्रह्माण्डेषु च सर्वेषां गर्वपर्यन्तमुन्नतिः ॥ येषां येषां भवेद्दो ब्रह्माण्डेषु परात्परे । विज्ञाय सर्वं सर्वात्मा तेषां शास्ताहमेव च ॥ इति ( ब्रह्मवैव० ) इत्यादौ । २ दुःखिप्रतियोगिकः सुखित्वप्रयुक्तः चित्तवृत्तिविशेषः इति योगशास्त्रज्ञा आहुः ( पात० भा० ) ( वाच० )। ३ उत्साहः । यथा तेजोविहीनं विजहाति दर्पः ( किरा० ) इत्यादौ
इति काव्यज्ञा आहुः। दर्शनम्-१ चाक्षुषप्रत्यक्षम् । यथा घटं पश्यतीत्यादौ धात्वर्थः । अत्र
घटपदोत्तरद्वितीयाया लौकिकविषयित्वमर्थः । तस्य धात्वर्थेन्वयः ( ग० व्यु० का० २)। २ ज्ञानम् । यथा विश्वं मिथ्या दृश्यत्वात् शुक्तिरजतवत् इत्यादौ । ३ सूक्ष्मव्यवहितविप्रकृष्टावशेषचाक्षुषस्पर्शादिविषयं ज्ञानं दर्शनम् ( सर्व० सं० पृ०. १६६ नकुली० )। ४ तत्त्वज्ञानसाधनं शास्त्रम् । यथा महर्षिगौतममुनिप्रणीतं न्यायदर्शनम् । तच्च दर्शनं द्विविधम् । आस्तिकदर्शनम् नास्तिकदर्शनं चेति । तत्रास्तिकदर्शनं मुख्यत्वेन षड्विधम् । सांख्यपातञ्जलपूर्वमीमांसोत्तरमीमांसातर्कन्यायभेदेनेति । तदुक्तम् ॥ द्वौ योगौ द्वे च मीमांसे द्वौ तर्काविति षट् बुधाः इति । एतानि शास्त्राण्याहुरिति शेषः । तत्र सांख्यं कपिलकृतं द्वाविंशतिसूत्रात्मकम् अध्यायषट्वात्मकं च निरीश्वरवादः । पातञ्जलम् पतञ्जलिकृतं पादचतुष्टयात्मकं योगशास्त्रम् । पूर्वमीमांसा जैमिनिकृतं द्वादशाध्यायाल्मकं कर्मकाण्डम् । उत्तरमीमांसा वेदव्यासकृतमध्यायचतुष्टयात्मकं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org