________________
३४८
न्यायकोशः। दण्डः-१ लगुडः । यथा घटं प्रति दण्डो निमित्तं कारणमित्यादौ । २
[क] ग्रहणावच्छिन्नशासनम् । [ख ] ग्रहणपूर्वकशासनम् । यथा प्रजाः शतं दण्डयति राजा गर्गाः शतं दण्ड्यन्त इत्यादौ दण्ड्यर्थः इति व्यवहारशास्त्रज्ञा आहुः । शासनं नियन्त्रणम् । अत्र शतग्रहणानुकूलं यत्. प्रजानां शासनम् तत्कर्ता इत्येवं बोधः ( श० प्र० श्लो० ७३
पृ० ९८ )। दण्डनीतिः-विद्याविशेषः। तच्च अर्थशास्त्रम् ( कुल्लूकः . मनु० टी०
७।४३ ) ( अमरः )। यथा कामन्दकिनीतिशास्त्रम् । अत्रोच्यते त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ । दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः ॥ इति (भा० शा० अ० ५९ )। त्रैविद्येभ्यस्त्रयी विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकी चात्मविद्यां वार्तारम्भांश्च लोकतः ॥ इति ( मनु० अ० ७ श्लो० ४३ )। दण्डपारुष्यम्-परगोत्रेष्वभिद्रोहो हस्तपादायुधादिभिः । भस्मादिभिश्चोप
घातो दण्डपारुष्यमुच्यते ॥ ( मिताक्षरा २।२१२ )। दत्तम्—पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात्प्रत्युपकारतः। स्त्रीशुल्कादिग्रहार्थं च
दत्तं दानविदो विदुः ॥ ( मिताक्षरा २।१७६ )। दत्ताप्रदानिकम्-दत्वा द्रव्यमसम्यग्यः पुनरादातुमिच्छति । दत्ताप्रदानिक
नाम व्यवहारपदं हि तत् ।। ( मिताक्षरा २।१७५)। दमः-१ कुत्सितात्कर्मणो मनोनिवर्तनम् । २ बाह्येन्द्रियनिग्रह इति
वेदान्तिनः । ३ दण्डनमिति धर्मशास्त्रज्ञाः। ४ कर्दम इति काव्यज्ञा
आहुः ( वाच० )। दम्भः-[क] कपटेन धार्मिकत्वादिना स्वोत्कर्षख्यापनेच्छा ( गौ० वृ०
४।१३ )। [ख] धार्मिकत्वेन ख्यापनम् । यथा अभिसंधाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ।। (गीता० अ० १७ श्लो० १२) इत्यादौ ( ल० म०)। [ग] अधार्मिकेणात्मनो धार्मिकत्वस्य ख्यापनमिति केचित् । यथा द्वेषं दम्भ च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ( मनु० ) इत्यादौ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org