________________
न्यायकोशः।
३४७ स्थले संकेतश्च स्वजन्यबोधवत्त्वेनाभिप्रायविषयतावच्छेदकावच्छिन्नविषयकत्व स्वजन्यत्व एतदुभयसंबन्धेन युष्मत्पदप्रकारकबोधविषयकोभ्युपेयते (ग० शक्ति० टीका० पृ० ७५ )। तत्र बोधः तादृशोभयसंबन्धेन युष्मत्पदवान् भवतु इत्याकारकः संकेतो ज्ञेयः । [ग] संबोध्यश्चेतनस्त्वंपदार्थ इति शाब्दिकादय आहुः। त्वाष्ट्रम्- ( नक्षत्रम् ) चित्रा ( पु० चि० पृ० ३५७ )।
दक्षिणः-१ [क] शरीरावयववृत्तिजातिमान् ( वै० उ० २।२।१० )। यथा पुरुषस्य दक्षिणभाग इत्यादौ। [ख] अवामो देहभागविशेष इत्यपि केचित् । २ नायकनायिकाविशेषाविति साहित्यशास्त्रज्ञाः ।
३ परच्छन्दानुवर्ती । ४ कुशल इति. काव्यज्ञाः। दक्षिणा-१ यज्ञाद्यन्ते दानम् । अत्रानायते तस्मान्नादक्षिणं हविः स्यात्
इति शतपथश्रुतिः । पुराणमपि अदत्तदक्षिणं दानं व्रतं चैव नृपोत्तम । विफलं तद्विजानीयाद्भस्मनीव हुतं हविः ॥ इति ( भविष्यपु० ) (वाच०)। आनत्यर्थदान एव दक्षिणाशब्दो रूढः ( जै० सू० वृ० अ० १० पा० २ सू० ३६ ) । २ ( दिक् ) [क] प्राच्यभिमुखपुरुषदक्षिणभागावच्छिन्ना दिक् (वै० उ० २।२।१०) (वै० २।२।१५ ) । अत्र दक्षिणत्वं तु शरीरावयववृत्तिजातिविशेषः । [ख] मेरुव्यवहितदेशावच्छिन्ना दिक् ( वाक्य ० १ पृ० ५ ) ( न्या० बो० १ पृ० ३ ) (मु० १ पृ० ९४ ) (वै० वि० २।२।१० )। यथा झळकीग्रामादक्षिणस्यां दिशि विजयपुरम् ( विजापुर )। अत्र च झळकीनिष्ठमेरुगिरिसंयुक्तसंयोगपर्याप्तसंख्याव्यापकसंख्यापर्याप्त्यधिकरणमेरुगिरिसंयुक्तसंयोगवन्मूर्तवृत्ति विजयपुरम् इति शाब्दबोधः । दक्षिणदिगधिपो भौमः । यथाह सूर्यः सोमः क्षमापुत्रः सैंहिकेयः शनिः शशी । सौम्यस्त्रिदशमत्री च प्राच्यादिदिगधीश्वराः ॥ इति ( ज्योति० त०)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org