________________
३४६
न्यायकोशः। त्वक्-१ (इन्द्रियम् ) [क] स्पर्शग्राहकं महदिन्द्रियम् ( न्या० म० १
पृ० १४ )। त्वचि स्थितमिन्द्रियं त्वगिन्द्रियम् ( दि० १ पृ० ८५)। पृथिव्याद्यनभिभूतैर्वाय्ववयवैरारब्धं सर्वशरीरव्यापि त्वगिन्द्रियम् ( प्रशस्त ० )। तच्च देहव्यापि त्वचि स्थितम् सूक्ष्मवायोः सत्त्वांशेनोत्पन्नं वाताधिष्ठातृदेवताकं च इति केचिच्छास्त्रकारानुयायिन आहुः ( वेदा० सा० )। त्वगिन्द्रियस्य वायवीयत्वे प्रमाणमनुमानम् । तच्च अनुमानम् त्वगिन्द्रियं वायवीयम् द्रव्यत्वे सति रूपादिषु पञ्चसु मध्ये स्पर्शस्यैवामिव्यञ्जकत्वादङ्गसङ्गिसलिलशैत्यव्यञ्जकव्यजनपवनवत् इति (सि० च०१ पृ० ८ ) ( मु० १ वायु० पृ० ८५) ( त० भा० प्रमेय० पृ० २६) (प्र० प्र० इन्द्रि० पृ० ११-१२)। महदुद्भूतस्पर्शवद्रव्यम् उद्भूतस्पर्शश्च त्वगिन्द्रियेण गृह्यते । तेन वायुपरमाणुप्रदीपप्रभादयस्त्वचा न गृह्यन्ते । परमाणोर्महत्त्वाभावात् प्रभाया उद्भूतस्पर्शाभावात् (न्या० म० १ पृ० ६ )। एवम् रूपभिन्न रूपत्वादिभिन्नं च यच्चक्षुर्योग्यं तत् त्वगिन्द्रियेणापि गृह्यते (मु० १ पृ० ११३)। किं च त्वगिन्द्रियं महत्त्वोद्भूतरूपस्पर्शवद्रव्यतद्वृत्तिकर्मसामान्यसमवायसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वस्नेहानामपि ग्राहकम् (सि० च० वायुनि० पृ० ८)।[ख ] स्पर्शोपलब्धिसाधनमिन्द्रियम् (त० भा० प्रमेय. पृ० २६ )। [ग] जले शीतस्पर्शः इति स्पर्शप्रत्यक्षासाधारणं कारणम् (प्र० प्र० इन्द्रिय० पृ० ११)। [घ ] शरीरव्यापकं स्पर्शग्राहकमिन्द्रियम् (मु० १ वायु० पृ० ८५ )। यथा द्रव्याध्यक्षे त्वचो योगो मनसा ज्ञानकारणम् (भा० ५० श्लो० ५८ ) इत्यादौ । यथा वा देहव्यापि त्वगिन्द्रियम् ( भा० ५० श्लो० ४४ ) इत्यादौ । २ वृद्धि
क्षयवद्र्व्यसहजावरणं त्वगित्युच्यते ( वै० उ० ३।१।९)। त्वम्-[क] तत्कालीनसंबोध्यचैत्रत्वमैत्रत्वादिविशिष्टः ( दि० ४ पृ०
१७८-१७९ )। [ख] स्वजन्यबोधाश्रयतया वक्त्रभिप्रायविषयतावच्छेदकत्वरूपस्वसंबोध्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नः (ग०शक्ति० पृ० ७३ )। यथा भो चैत्र वमत्रागच्छेत्यादौ त्वंपदार्थः । युष्मत्पद
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org