________________
३५.
न्यायकोशः। ज्ञानकाण्डम् । तर्कः कणादमुनिकृतमध्यायदशकं वैशेषिकशास्त्रम् । न्यायस्तु गौतममहर्षिप्रणीतं पञ्चाध्यायात्मकं न्यायशास्त्रम् इति । अत्र प्रशंसा षड्दर्शनानि मेङ्गानि पादौ कुक्षिः करौ शिरः । तेषु भेदं तु यः कुर्यान्मदङ्गच्छेदको हि सः॥ इति (तन्त्रशास्त्रम् )। तत्र योगशास्त्रं पूर्व हिरण्यगर्भोपदिष्टस्यैव योगशास्त्रस्य संक्षिप्तानुवादरूपमिति ज्ञेयम् ( योग याज्ञ० )। उत्तरमीमांसा च वेदान्तदर्शनमित्युच्यते । तत्रापि मुख्यत्वेन त्रीणि दर्शनानि द्वैताद्वैतविशिष्टाद्वैतप्रतिपाइकानि । तत्र द्वैतदर्शनम् वाय्ववतारत्वेन प्रसिद्धर्मध्वाख्यश्रीपूर्णप्रज्ञाचार्यैः प्रणीतम् ३७ ग्रन्थात्मकम् । अद्वैतदर्शनम् शंकरावतारत्वाभिमतशंकराचार्यप्रणीतम् । विशिष्टाद्वैतदर्शनं च प्राकृतभाषया द्रमिडकृतमूलम् शेषावतारत्वाभिमतरामानुजा चार्यकृततन्मूलव्याख्यानरूपम् इति । वैशेषिकशास्त्रादीनां पद्मपुराणे उल्लेखो दृश्यते । यथा कणादेन च संप्रोक्तं शास्त्रं वैशेषिकं महत् । गौतमेन तथा न्यायं सांख्यं च कपिलेन वै ॥ इत्यादि ( पद्मपुराणे उत्त० ख० अ० २०७ ) ( वाच० )। नास्तिकदर्शनमपि षड्विधम् । चार्वाकसौत्रान्तिकवैभाषिकयोगाचारमाध्यमिकाहतभेदात् । तत्र मध्यमा
श्चत्वारो बौद्धविशेषाः। दशा-१ कालविशेषः । यथा सत्प्रतिपक्षतादशायाम् (ग० व्याव०
सत्प्र० ) इत्यत्र साध्यतदभावव्याप्यवत्तापरामर्शद्वयसंवलनकालः । २ बाल्यं यौवनं जरा इत्यवस्था इति पौराणिका आहुः। ३ जाग्रत्स्वप्नसुषुप्तय इत्यवस्था इति वेदान्तिनः । ४ गर्भवासाद्यवस्था इति भिषजः । ताश्च दश गर्भवासः जन्म बालपम् कौमारम् पौगण्डम् यौवनम् स्थविरता जरा प्राणरोधः नाशः चेति ( वाच० )। ५ कामकृता विरहिणां नेत्ररागाद्यवस्था इति कामशास्त्रज्ञाः । ता अपि दश नयनप्रीतिः प्रथम चित्तासङ्गस्ततोथ संकल्पः । निद्राछेदस्तनुता विषय निवृत्तिनपानाशः ॥ उन्मादो मूर्छा मृतिरित्येताः स्मरदशा दशैव स्युः इति ( वाच. )। ६ नक्षत्रानुसारेण सूर्यादिग्रहाणां स्वामित्वेन भोग्यकालो दशा इति ज्योतिविदः । ७ चित्तमित्य जयपाल आह । दीपवर्ती इति काव्यज्ञा आहुः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org