________________
न्यायकोशः।
३३९ अत्र विषयत्वलक्षणं गौणमधिकरणत्वं तृतीयया बोध्यते । तेन भोगेष्वनुरक्तः इत्येवं तत्र बोधः ( श० प्र० श्लो० ९२ पृ० ११८-१२५) (ग० व्यु० का० ३ पृ० ९१-९८ ) ( का० व्या० पृ० ७-८)। ११ वैशिष्टयम् । यथा वह्निमत्त्वेन पर्वतमनुमिनोमि इत्यादौ वह्निविधेयकत्वरूपं वैशिष्टयं तृतीयान्तार्थः । यथा वा रजतत्वेन शुक्तिं जानातीत्यादौ ज्ञाने रजतत्वादिप्रकारकत्वरूपं वैशिष्टयम्। घटत्वेन वह्निर्नास्तीत्यादौ च (सौन्दडमते ) अभावे घटत्वावच्छिन्नप्रतियोगिताकत्वरूपं वैशिष्टयम् तृतीयान्तार्थः इति संक्षेपः (ग० व्यु० का० २ ख० २ पृ० ५६ )। तृप्तिः–फलेच्छाविच्छेदः (कु० टी० ५)। यथा भोजनेन तृप्तोस्मीत्यादौ । __ यथा वा वार्धाणसस्य मांसेन तृप्तिर्वादशवार्षिकी ( मनुः अ० ३ श्लो०
२७१) तस्यालमेषा क्षुधितस्य तृप्त्यै (रघु० स० २ श्लो० ३९) इत्यादौ। तृषा-पिपासा । यथा न हन्ति मण्डूककुलं तृषाकुलः (ऋतु०) इत्यादौ
तृषाकुलस्य लक्षणं च-सततं यः पिबेत्तोयं न तृप्तिमधिगच्छति । मुहुः
काङ्कुति तोयं तु तं तृष्णार्दितमादिशेत् ॥ इति ( भावप्र० )। तृष्णा—(दोषः) १ इदं मे न क्षीयताम् इतीच्छा ( गौ० वृ० ४।३ )। . २ अप्राप्ताभिलाषः। लोभजन्या मनोवृत्तिः । यथा लोभो जनयते
तृष्णां तृषार्तो दुःखमाप्नुयात् ( हितोप० ) इत्यादौ । तेजः-१ (द्रव्यम् ) [क] तेजो रूपस्पर्शवत् (वै० २।१।३ )। तदर्थश्च
रूपं भास्वरम् स्पर्शश्च उष्णः तद्वत्तेजः । भास्वरशुक्लरूपवत्त्वम् उष्णस्पर्शवत्त्वं च-तेजोलक्षणम् इति । ऊष्मणि भर्जनकपालस्थे तेजसि तप्तवारिस्थतेजसि च तेजस्त्वेन भास्वररूपमनुमीयते । तत्र तेजस्त्वं तु उष्णस्पर्शवत्त्वेनानुमीयते ( वै० उ० २।१।३ ) (वै० दि० २।१।३ ) । [ख] उष्णस्पर्शवत् (त० सं०)। अत्र सूत्रम् तेजस उष्णता इति ( वै० २।२।४)। [ग] तेजस्त्वसामान्यवत् (प्रशस्त० ) (त० कौ० १ पृ० २ )। तत्र चक्षु शरीरसवितृसुवर्णवह्निविद्युदादिप्रभेदम् (त०भा०अर्थ० पृ० २७)। यथा सामानाधिकरण्यं हि तेजस्तिमिरयोः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org