________________
न्यायकोशः।
कुतः ( माघ० स० २ श्लो० ६२ ) इत्यादौ सूर्यादीनां प्रौढप्रकाशः । तेजोलक्षणं च तेजस्त्वमेव । तच्च चन्द्रचामीकरसमवेतत्वे सति ज्वलनसमवेतं सामान्यम् ( सर्व० औलू० पृ० २१८)। जन्योष्णस्पर्शसमवायिकारणतावच्छेदकतया सिद्धो जातिविशेषः । जन्यतेजस्त्वावच्छिन्नसमवायिकारणतावच्छेदकतया सिद्धो जातिविशेषः (मु० १ तेजो० पृ० ७८ ) ( दि० १ पृ० ७८ ) । शुक्लभास्वररूपसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वम् । सांख्यास्तु शब्दस्पर्शतन्मात्रसहिताद्रूपतन्मात्रादुत्पन्नं शब्दस्पर्शरूपगुणं तृतीयं महाभूतं तेंज इत्याहुः । अत्रोच्यते। तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते । अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम् ॥ इति ( भा० आश्व० )। २ सात्त्विकोधिक्षेपा. पमानादेरसहनरूपो नायकगुणविशेषस्तेज इति साहित्यशास्त्रज्ञाः ।
अत्रोच्यते । अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेप्यसहनं तत्तेजः समुदाहृतम् ॥ इति (सा० द०)। ३ हयवेग इत्यश्वशास्त्रज्ञाः। अत्रोच्यते। तेजो नाम दर्यापरनामा सत्त्वगुणविकारः प्रकाशकोन्तःसारविशेषः । यथाह भोजराजः । तेजो निसर्गजं सत्त्वं वाजिनां स्फुरणं रजः। क्रोधस्तम इति ज्ञेयास्त्रयोपि सहजा गुणाः ॥ इति। ४ रेतः। अत्रोच्यते। रसादीनां शुक्रान्तानां धातूनां यत् परं तेजस्तत् खल्वोजः । तदेव बलमित्युच्यते इति ( सुश्रु० )। ५ सारः इति भिषजः । ६ दीप्तिः । ७ प्रभावः । ८ पराक्रमः । ९ नवनीतं चेति काव्यज्ञाः । १० चैतन्यात्मकं ज्योतिरिति वेदान्तिन आहुः ( वाच०) । न्यायमतसिद्धं तेजो द्विविधम् । नित्यम् अनित्यं च । तत्र नित्यं परमाणुलक्षणम् । अनित्यं कार्यलक्षणम् । अनित्यं त्रिविधम् । शरीरम् इन्द्रियम् विषयश्च । तत्र शरीरमयोनिजमेव । तच्चादित्यलोके प्रसिद्धम् । तच्च पार्थिवभागोपष्टम्भाञ्चोपभोगसमर्थं भवति (प० मा० ) ( प्रशस्त० )। इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराप्रवर्ति । विषयरूपं चतुर्विधम् । भौमम् दिव्यम् औदर्यम् आकरजं च । तत्र भौमम् पार्थिवमात्रेन्धनं वयादिकम् खद्योततेजआदि च । दिव्यम् अबिन्धनं सौरचान्द्रविद्युद्वडवा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org