________________
३३८
न्यायकोशः। यज्ज्ञापकत्वम् निरूपकत्वसंबन्धेन तद्वान्वह्निः इत्याकारस्तत्र बोधः (श० प्र० श्लो० ९२ पृ० १२२ ) ( ग० व्यु० का० ३ पृ० ८७ )। घटेन शून्यः विधुरः रहितः इत्यादौ च हेतुत्वमेव तृतीयार्थः । अत्रापि हेतौ ( पा० सू० २।३।२३ ) इत्यनेनैव तृतीया । तत्र हेतुत्वं च प्रतियोगिसाधारणमपि इति भाति । तथा च घटत्वाद्यवच्छिन्नं प्रतियोगित्वमेव तृतीयार्थः । तस्य शून्यत्वेन्वयः। एवम् चैत्रेण चैत्रस्य वा तुल्य इत्यादावपि प्रतियोगित्वमेव तृतीयार्थः ( श० प्र० श्लो० ९२ पृ० १२३-१२४ ) । ७ फलम् (प्रयोजनम् )। यथा धनेन कुशलम् अध्ययनेन वसति इत्यादौ तृतीयार्थः । अत्रापि हेतौ ' (पा० स० २।३।२३ ) इत्यनेन फलार्थकात्तृतीया इति ज्ञेयम् । तत्र हेतुशब्देन कारणमिव फलमपि गृह्यते । ८ अभेदः । यथा धान्येन धनी गोत्रेण गार्ग्यः प्रकृत्या अभिरूपः प्रकृत्या कृपणः स्वभावेन सरलः घटत्वेन साजात्यम् वाजपेयेन यजनम् जात्या ब्राह्मणः इत्यादौ तृतीयार्थः । अत्र प्रकृत्यादिभ्य उप्रसंख्यानम् इत्यनेन वार्तिकेन अभेदार्थे तृतीया । अभेदस्य धान्यादावन्वयः । तथा च धान्याभिन्नधनवान् गोत्राभिन्नगर्गकुलोत्पन्नः साहजिकरमणीयतावान् इत्यादयः क्रमेण बोधा भवन्ति ( का० व्या० पृ० ८ )। केचित्तु धूमेन वह्निः इत्यादाविव धान्येन धनम् इत्यादावपि ज्ञापकत्वमेव तृतीयार्थः इति वदन्ति ( श० प्र० श्लो० ९२ पृ० १२४ )। प्रकृत्या कृपण इत्यत्र प्रकृत्यादिपदं यावदाश्रयभाविधर्मपरम् । तृतीयार्थश्चाभेदः तादात्म्यं वा। एवं च स्वाश्रयाधिकरणयावत्कालवृत्तिकार्पण्यवान् इत्याकारस्तत्र बोधः ( श० प्र० श्लो० ९२ पृ० १२४)। जात्या ब्राह्मण इत्यत्र ब्राह्मणपदस्यादृष्टविशेषप्रयोज्यधर्मवत्परतया तादृशधर्म एव जात्यभेदस्यान्वयः । स्वरूपत उपस्थिते ब्राह्मण्ये तदन्वयायोगात् इति विज्ञेयम् (श०प्र० श्लो० ९२ पृ० १२४ )। ९ अवच्छेदकत्वम् अवच्छेद्यत्वं वा । यथा घटत्वेन जन्यत्वम् प्रकारत्वं वा इत्यादौ तृतीयार्थः । १० अधिकरणत्वम् (विषयत्वम् )। यथा भोगैः प्रसितः उत्सुकः इत्यादौ तृतीयार्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org