________________
न्यायकोशः। स्तत्र फलितार्थः ( श० प्र० श्लो० ९२ पृ० ११९ ) ( म० प्र० १ पृ० ६) । इदं तु बोध्यम् । प्रकृत्यर्थस्य निरुक्तवैशिष्ट्यं यदि वर्तमानतया प्रत्याय्यते तदेदं विशेषणत्वेन व्यपदिश्यते । यदि चावर्तमानत्वेन तदोपलक्षणत्वेन व्यपदिश्यते । यथा शिखया परिव्राजको वर्तते इत्यादौ । यथा वा गुरुणा टीका कुरुणा क्षेत्रमित्यादौ ( श० प्र० श्लो० ९२ पृ० ११९)। इदं च बोध्यम् । इत्थंभूतलक्षणे (पा० सू० २।३।२१) इत्यत्र लक्षणं च व्यावर्तकम् । तच्च विशेषणोपलक्षणभेदेन द्विविधम् । तत्रोपलक्षणं चाविद्यमानं सद्वथावर्तकम् । जटाभिस्तापस इत्यादावविद्यमानजटादेः कालान्तरसंबन्धविवक्षया मतुबाद्यनवकाशादुपलक्षणवाचकजटादिपदात् तृतीयैव (ग० व्यु० का० ३ पृ० ९२)। केचित्तु ( शाब्दिकाः ) ज्ञानज्ञाप्यत्वं तृतीयार्थः । यथा जटाभिस्तापस इत्यादी इत्याहुः । अत्र तृतीयाथैकदेशे ज्ञाने जटानामन्वयः । ज्ञानज्ञाप्यत्वस्य च तापसपदार्थैकदेशे तापसत्वेन्वयः । एवं च जटाज्ञाप्यतापसत्ववान इत्यर्थः ( म० प्र० १ पृ० ६ )। अत्रेदं चिन्त्यम् । जटाभिस्तापस इत्यादी ज्ञानज्ञाप्यत्वस्य तृतीयार्थत्वे धूमेन वह्निमानित्यत्रेव प्रकृतस्थलेपि हेतौ (पा० सू० २।३।२३ ) इत्यनेनैव तृतीयाया उपपत्तौ इत्थंभूतलक्षणे ( पा० सु० २।३।२१ ) इति सूत्रस्य वैयर्थ्यं स्यात् इति। ६ हेतुत्वम् । यथा धनेन कुलम् दण्डेन घटः । अत्र क्रियायोगाभावात् क्रियान्वयिनिरुक्तकरणत्वार्थिका कर्तृकरणयोस्तृतीया (पा० सू० २।३।१८ ) इत्यनेन न तृतीया । किंतु हेतौ ( पा० २।३।२३ ) इति सूत्रेणानुमानार्थेप्यन्वितहेतुत्वार्थिका तृतीयानुशिष्यते इति विशेषः ( का० व्या० पृ० ८ )। अत्र हेतुत्वं च जनकज्ञापकोभयसाधारणं बोध्यम् । तेन धनेन कुलमित्यादौ हेतुत्वं जनकत्वम् । तथा च धननिष्ठहेतुताककुलम् इत्याकारो बोधः ( श० प्र० श्लो० ९२ पृ० १२१)। पर्वतो धूमेन वह्निमानित्यादौ तु ज्ञापकत्वमेव हेतुत्वम् (ग० व्यु० का० ३ पृ० ८७)। धूमेन वह्निः अणुत्वेन द्रव्यत्वम् इत्यादौ ज्ञापकत्वलक्षणं गौणमेव हेतुत्वं तृतीयार्थः । ( नवीनमते ज्ञाप्यत्वं तृतीयार्थः )। तेन धूमनिष्ठं ४३ न्या०को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org