________________
३३६
न्यायकोशः। अत्र येनाङ्गविकारः (पा० सू० २।३।२० ) इति सूत्रेण तृतीया । तदर्थश्च येनाङ्गविकारो हानिराधिक्यं वा तदङ्गबोधकात् तृतीया इति । एवं च अत्र तृतीयाया वृत्तित्वमर्थः । तच्च काणादिपदार्थंकदेशे विकारेन्वेति । काणत्वं च बहिरवच्छेदेन चक्षुःशून्यगोलकवत्त्वम् । प्रसन्नान्धस्य काणत्वे तु चक्षुष्मद्गोलकवत्त्वे सतीति वाच्यम् । यदि बहिरवच्छेदेन चक्षुःसत्त्वेपि उपघातादेर्न चाक्षुषं तदोपहतगोलकवत्त्वमेव काणत्वम् । अक्षिपदं चक्षुष्मद्गोलकपरम् । तथा च तादृशगोलकवृत्ति यच्चक्षुःशून्यत्वम् उपघातो वा तद्विशिष्टगोलकवान् इति अक्ष्णा काणः इत्यस्यार्थः। परे तु अक्ष्णा काण इत्यादौ अभेदे तृतीया । तथा च तादृशगोलकाभिन्नं यच्चक्षुः शून्यमुपहतं वा तद्वान् इति वाक्यार्थः इत्याहुः । खञ्जत्वं च संस्थानविशेषशून्यपादवत्त्वम् । तथा च पादवृत्ति यत् तथाविधसंस्थानशून्यत्वम् तद्विशिष्टपादवान् इति पादेन खञ्जः इत्यस्यार्थः । एवम् मुखेन त्रिलोचन इत्यस्यापि मुखवृत्तिलोचनत्रयवान् इत्यर्थः ( का० व्या० पृ० ८)। ४ विशेषणम् । यथा ज्ञायमानत्वेन लिङ्गं करणमित्यादौ तृतीयार्थः । अत्र इत्थंभूतलक्षणे ( पा० स० २।३।२१ ) इत्यनेन लक्षणवाचिपदात्तृतीयानुशिष्यत इति ज्ञेयम् । अयं भावः । अत्र लक्षणं च व्यावर्तकम् । तच्च विशेषणोपलक्षणभेदेन द्विविधम् । तत्र विशेषणवाचिपदात् ज्ञायमानत्व इत्यस्मात् तृतीया इति ( ग• व्यु. का० ३ पृ० ९१-९२ ) । ५ उपलक्षणम् । यथा जटाभिस्तापस इत्यादौ तृतीयार्थः । अत्रोपलक्षणत्वं च अतढ्यावृत्त्यनवच्छेदकत्वे सत्यतव्यावृत्तिसमानाधिकरणत्वम् । अस्ति च जटायामतापसव्यावृत्त्य नवच्छेदकत्वम् । शमदमादिमत्त्वस्यैव तदन्यूनानतिरिक्तवृत्तितथा तदवच्छेदकत्वात् । यदि शमादिना तापसः इति प्रयोग इष्टस्तदा विशेषणोपलक्षणैतदुभयसाधारणवैशिष्ट्यमेव तृतीयार्थः ( का० व्या० पृ० ७ )। अत्र जटाविशिष्टस्तापसः इत्याद्यनुभवेन विशेषणेनुशिष्टायाः इत्थंभूतलक्षणे ( पा० सू० २।३।२१ ) इत्यनेन विहितायास्तृतीयायाः वैशिष्ट्यम् अर्थः । वैशिष्टयं चातद्व्यावृत्तत्वम् । तथा च अजटव्यावृत्तिमांस्तापसः इत्याकार
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org