SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ३३१ लक्षणा । कृतित्ववदाश्रयतात्वादेरखण्डत्वे तदवच्छिन्नेपि तिङः शक्तिरेव इति ( श० प्र० श्लो० ९५ पृ० १३८ ) । कचित् अवच्छेदकत्वम् । यथा चैत्रो जानातीत्यादौ । कचित् दैशिकाश्रयत्वम् । यथा बुद्धिरवगाहते घटो भासत इत्यादौ । कचित् प्रतियोगित्वम् । यथा घटो नश्यतीत्यादौ तिबर्थः ( श० प्र० श्लो० ९५ पृ० १३८ ) ( चि० ४ ) ( त० दी० ) ( दि. ४ )। एवम् तसादिप्रत्ययानामप्यर्था यथायोग्य स्वयमूह्याः । अत्रेदं तत्त्वम् । जीवनयोन्यादिनिखिलयत्नगतं यत्नत्वमेव तिङः शक्यतावच्छेदकम् न तु प्रवृत्तित्वम् । चैत्रों निःश्वसिति इत्यादितोपि श्वासाद्यनुकूलप्रयत्नस्य प्रतीतेः। पचतीत्यादितः पाककृतिमान् इति प्रतीतेश्च ( श० प्र० श्लो० ९५ पृ० १३७–१३८ )। पचति इत्यस्य पाकं करोति इत्यादियत्नार्थककरोतिना सर्वाख्यातविवरणात् वृद्धव्यवहारादिव बाधकं विना विवरणादपि व्युत्पत्तरित्यन्ये । किं करोति इति यत्नप्रश्ने पचति इत्युत्तरस्य यत्नार्थकत्वं विनानुपपत्तेः इत्याचार्याः (चि० ) ( वाच० ) । अत्रायमर्थः । चैत्रः पचतीत्यादौ तिङर्थ कृतौ धात्वर्थस्य तं करोमि इति प्रतीतिनियामकः साध्यत्वाख्यविशेष्यताप्रभेदः तद्विशिष्टं फलोपधायकत्वलक्षणमनुकूलत्वं वा संसर्गमर्यादया भासते । तादृशकृतेश्च चैत्रादिनामार्थे ईश्वरः पचति इत्यादिप्रयोगापत्तिवारणार्थमवच्छेदकत्वेनैव संसर्गेणान्वयः ( श० प्र० श्लो० ९५ पृ० १३७-१३८ ) । अत्रेयं मतप्रक्रिया ज्ञेया । शाब्दिकाः भावप्रधानमाख्यातम् सत्त्वप्रधानानि नामानि इति यास्कमुनिपठितं निरुक्तमनुरुध्य चैत्रस्तण्डुलं पचति इत्यादौ चैत्राभिन्नकर्तृकस्तण्डुलनिष्ठविक्लित्त्यनुकूलो व्यापारः इत्याद्याकारकं सर्वत्र धात्वर्थमुख्य विशेष्यकमेव शाब्दबोधं स्वीकुर्वन्ति । नैयायिकास्तु भावो भावना कृतिः प्रधानं धात्वर्थ प्रति इति विग्रहलभ्यस्य पूर्वोक्तयास्कनिरुक्तार्थस्य स्वीकारेण तण्डुलनिष्ठविक्लित्त्यनुकूलव्यापारानुकूलकृतिमान् इत्याद्याकारकं सर्वत्राख्यातार्थविशेष्यकं प्रथमान्तार्थमुख्यविशेष्यकमेव शाब्दबोधमुररीचक्रुः । अधिकं तु शाब्दबोधः इत्यत्र द्रष्टव्यम् । अत्र दीधितिकृतः। पचतीत्यादावाख्यातस्य कृत्यर्थकत्वेपि चैत्रेण पक्कम् इत्यादा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy