________________
३३० .
न्यायकोशः। ९ अधिकारः । १० संग्रामः (वाच० )। कचित् पादपूरणार्थं वाक्यालंकारार्थं चापि तावच्छब्दः प्रयुज्यते । एतेष्वर्थेषु केचिदर्थाः कोशे उक्ता । यथा यावत्तावत्परिच्छेदे कात्स्न्ये मानावधारणे इति विश्वः । यावत्तावच्च साकल्येवधौ मानेवधारणे इत्यमरः ( का० ३ नानार्थव०
श्लो० २४५ ) इति । तिङ्- ( विभक्तिः ) तिप्तस्झिसिप्० ( पाणि० ३।४।७८ ) इत्यनेन
विहिताः प्रत्ययास्तिसंज्ञका बोध्याः। एतद्विचारस्तु कौमुद्यादौ द्रष्टव्यः । तिङ् शाब्दिकैराख्यातमित्युच्यते ( श० प्र० श्लो० ९५ पृ० १३७ )। धात्वर्थावच्छिन्नस्वार्थयत्नविधेयताकान्वयबोधसमर्थः शब्दस्तिङ् उच्यते ( श० प्र० श्लो० ९५ पृ० १३७ )। यथा चैत्रः पचतीत्यादौ तिबाख्यातम् । रथो गच्छतीत्यादौ तिबाख्यातेन व्यापारो निरूढलक्षणया बोध्यते । अत्र रथादीनामचेतनतया गमनानुकूलप्रयत्नशून्यत्वाड्यापार एव लक्ष्यते इति भावः (न्या० म० ४ पृ० १८) (मु० ४ )। जानाति इच्छति यत्नं करोति इत्यादावाख्यातस्याश्रयत्वे लक्षणा । केचित्तु स्थीयते इत्यत्राख्यातेन कृतिर्बोध्यते इत्याहुः । एतन्मते चैत्रेण स्थीयते इत्यत्र चैत्रकर्तृका स्थित्यनुकूला कृतिः इति बोधः । कृतौ संख्याया नान्वयः इति भावः । अन्ये तु चैत्रकर्तृका वर्तमानस्थितिः इति धात्वर्थविशेष्यक एव शाब्दबोधः । प्रत्ययस्य निरर्थकत्वम् इत्याहुः ( न्या० म० ४ पृ० २० )। अत्रेदमवधेयम् । उभयपदिधातूनां यत्र क्रियाफलं कर्तृनिष्ठम् तत्रात्मनेपदम् यत्र च कर्तृभिन्ननिष्ठं तत्र परस्मैपदं साधु। चिन्तामणिकृतस्तु यत्र क्रियाफले कर्तुरभिप्रायः (इच्छा) तत्रैवात्मनेपदम् इत्याहुः (श० प्र० श्लो० ९७ पृ० १४४-१४५)। अत्राधिकं तु आत्मनेपदशब्दव्याख्यानावसरे संपादितम् (पृ० १२०)। तिङर्थश्च यत्नः । यथा चैत्रः पचतीत्यादौ यत्नः ( कृतिः) तिबाख्यातस्य वाच्यः (चि० ४)। कचित् समवायित्वम् आश्रयत्वं वा तिङर्थः। यथा ईश्वरो जानाति इच्छति रथो गच्छतीत्यादौ च । अत्र ज्ञानादिमत्त्वमात्रप्रतीतेः समवायित्वे तिङो निरूढलक्षणेति भावः । अत्रेदमवधेयम् । आश्रयत्वादौ तिङो निरूढ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org