________________
३२८
न्यायकोशः। ननुभावकम् तत् पदं तेन पदेन साकाङ्कम् इति तात्पर्यगर्भाकाङ्क्षाज्ञानकारणत्वावश्यकतया आकाङ्क्षाघटकतयैव तात्पर्यज्ञानं हेतुः न तु स्वातत्र्येण
इत्याहुः (त० प्र० ख० ४ पृ० ९३ )। तादर्थ्यम्-[क] तत्प्रयोजनकत्वम् । यथा यूपाय दार्वित्यादौ दारुणस्तादर्थ्यम् । अत्र स एवार्थः प्रयोजनमस्य तत्त्वम् इति व्युत्पत्तिः । अत्र तत्प्रयोजनत्वं च समभिव्याहृतपदार्थनिष्ठव्यापारेच्छानुकूलेच्छाविषयत्वम् । तत्प्रयोजनकत्वरूपतादर्थ्यं च तदिच्छाधीनेच्छाविषयव्यापाराश्रयत्वम् (ग० व्यु० का० ४ पृ० ९८.) । अत्र तादात्म्यत्वं च
संवन्धताविशेषः प्रतीतिसाक्षिकः ( त० प्र० १ पृ० ४५)। [ख] ___ उपकार्योपकारकभावरूपः संबन्धः इति शाब्दिका वदन्ति । [ग]
तदुद्देश्यकत्वमिति केचित् । तादात्म्यम्-१ [क] तद्वृत्तिधर्मविशेषः । यथा प्राचीनोक्ते तादात्म्य
संबन्धावच्छिन्नप्रतियोगिताको यः अभावः सोन्योन्याभावः इत्यन्योन्याभावस्वरूपे निरूपणीये घटान्योन्याभाव इत्यत्र घटत्वमेव घटतादात्म्यम् । तादात्म्यं च संबन्धताविशेषः प्रतीतिसाक्षिकः । अत्रायं भावः। घटान्योन्याभावबोधे घटत्वं संबन्धविधया प्रकारविधया च प्रतियोगितावच्छेदकम् इति द्विविधतया घटत्वस्य भानम् । तदवच्छिन्नप्रतियोगिताकश्चान्योन्याभाव इति लक्षणसमन्वयः इति ( त० प्र० १ पृ० ४५)। [ख] स्ववृत्त्यसाधारणो धर्मः । तादृशधर्मस्तद्व्यक्तित्वादिरूपः (ग० व्यु० का० १ पृ० ५)। यथा नीलो घट इत्यादौ प्रथमाविभक्तेरभेदार्थकत्वमते नीलादिनिष्ठतद्व्यक्तित्वमेव नीलपदोत्तरप्रथमविभक्त्यर्थस्तादात्म्यम् । अत्रासाधारण्यं चैकमात्रवृत्तित्वम् (ग० व्यु० का० १ पृ० ५)। भेदसहिष्णुरभेदस्तादात्म्यमिति केचिद्वेदान्तिन आहुः । मायावादिमते तत्सत्तातिरिक्तसत्ताकत्वाभावः इति तदर्थः ( वेदा० ५० )। भेदाभेदबुद्धिनियामकः संबन्धविशेषः इति सांख्या आहुः ( सांख्य० भा० ) ( वाच० )। २ ऐक्यम् । अत्र व्युत्पत्तिः सः आत्मा यस्य स तदात्मा । तस्य भावः तादात्म्यम् इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org