________________
न्यायकोशः
Jain Education International
T: 1
पृ० २४ ) ( मु० ४ पृ० १८९ ) । अत्रायमाशयः । शुकवाक्याच्छाब्दबोध ईश्वरीयतात्पर्यज्ञानस्यैव कारणत्वं कल्प्यते । तेन शुकस्यार्थज्ञानाभावेनाभिसंधापयितृत्वाभावेपि नाभिसंधापयितुरिच्छायास्तात्पर्यत्वानुपपत्तिः इति ( त० प्र० ख० ४ पृ० ९२ ) । अत्रान्ये मन्यन्ते शुकवाक्ये विनैव तात्पर्यज्ञानम् शाब्दबोधः इति ( मु० ४ पृ० १८९ ) सैन्धवमानयेत्यादौ सैन्धवपदम् आनयनपदार्थे लवणं प्रत्याययतु इत्याकारिकाया वाक्यप्रयोक्तुरिच्छायाः सत्त्वाल्लक्षणसमन्वयः ( म०प्र० ४ पृ० ५८ ) । एवम् श्वेतो धावति इत्याद्युदाहार्यम् ( दि० ४ पृ० १८९)। अत्र विशेषे तात्पर्यग्राहकाणि प्रकरणान्येव भोजनादीनि गमनादीनि वा विज्ञेयानि ( म०प्र० ४ पृ० ५० ) । अत्रोक्तं भर्तृहरिणा संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः || सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ इति । अत्रोदाहरणानि तु सशङ्खचक्रो हरिः इत्यादीनि ज्ञेयानि ( काव्यप्र० उ० २ ) । अत्रोक्तं कैश्चित् । प्रत्यक्षोपस्थितेनापि कलायेन तात्पर्यग्रहसहकारिणमासाद्य पचति इत्यत्रान्वयबोधः इति ( न्या० सि० दी० पृ० ४६ ) । कलायं शमीधान्यम् मुद्रादि । अत्र मतभेदाः । शशधरादयः शाब्दबोधं प्रति तात्पर्यज्ञानस्य कारणत्वं नास्त्येव इत्याहुः । केचित्तु सैन्धवमानयेत्यादौ नानार्थस्थल एव तात्पर्य संशयादेः संभवेन तत्रत्यशाब्दबोध एव तात्पर्यनिश्चयो हेतुः । न तु घटमानयेत्यादौ घटादिशाब्दबोधे हेतुः इत्याहुः । परे तु घटादिशाब्दस्थलेपि घटपदम् कुम्भपरम् लक्षणया पटपरं वा इति संशये घटशाब्दबोधाभावात् सर्वत्र तात्पर्यनिश्चयः कारणम् इत्याहु: ( म०प्र० ४ पृ० ५८ ) । वस्तुतस्तु नानार्थानुरोधेन शाब्दसामान्य एकपदार्थप्रकारकापरपदार्थ विशेष्यकप्रतीतीच्छयोश्चरितत्वरूपतात्पर्यज्ञानस्यैव हेतुत्वम् (त० प्र० ख० ४ पृ० १४ ) ( सि० च० ४ पृ० ३१ ) । अन्ये तु अयमेति पुत्रो राज्ञः पुरुषो - पसार्यतामित्यादौ राजपुत्रसंसर्गप्रतीतीच्छयोच्चरिते राज्ञ इत्यस्य पुरुषपदेन साकाङ्क्षत्ववारणाय यत् पदं यत्पदव्यतिरेकेण तात्पर्यविषयीभूतार्थान्वया
३२७
For Personal & Private Use Only
www.jainelibrary.org