________________
३२४
न्यायकोशः। उत्पन्नः खलु देहेन्द्रियवेदनाभिः संबध्यत इति नास्येदं स्वकृतस्य कर्मणः फलम् । उत्पन्नश्च भूत्वा न भवतीति तस्याविद्यमानस्य निरुद्धस्य वा स्वकृतकर्मणः फलोपभोगो नास्ति । तदेवमेकस्यानेकशरीरयोगः शरीरादिवियोगश्चात्यन्तं न स्यादिति । यत्र कारणमनुपपद्यमानं पश्यति तत्रानुजानाति । सोयमेवंलक्षण अहस्तर्क इत्युच्यते (वात्स्या० १।१।४०)। [ख] व्यापकाभाववत्त्वेन निर्णीते व्याप्यस्याहार्यारोपाद्यो व्यापकस्याहार्यारोपः सः । यथा निर्वह्नित्वारोपान्निधूमत्वारोपः निर्वह्निः स्याञ्चेन्निधूमः स्यात् इत्यादिः । ह्रदो निर्वह्निः स्याचेन्निधूमः स्यात् इत्यादिवारणाय व्यापकाभाववत्त्वेन निर्णीत इति । निर्वह्निः स्याञ्चेदद्रव्यं स्यात् इत्यादिवारणाय व्याप्यस्येति । तद्व्याप्यारोपाधीनस्तदारोपः इत्यर्थलाभाय व्यापकेति (गौ० वृ० १।१।४०)। [ग] अनिष्टप्रसङ्गः । स च सिद्धव्याप्तिकयोधर्मयोाप्याङ्गीकारेणानिष्टव्यापकप्रसञ्जनम् ( त०भा० पृ०४३) (प्र० प्र०)। यथा पर्वतो वह्निमान् धूमादित्यत्र धूमोस्तु वह्निर्मास्तु इति हेतोरप्रयोजकत्वशङ्कायाम् यद्ययं निर्वह्निः स्यात्तर्हि निधूमः स्यात् । न भवति च निधूमः । तस्मान्न निर्वह्निः किंतु वह्निमानेवेति ( प्र०प० पृ० २१)। [५] व्याप्यारोपाद्व्यापकप्रसञ्जनम् ( गौ० वृ० ४।१।३)। [ङ ] व्याप्यारोपेण व्यापकारोप: ( त० सं० गु० ) ( सर्व० सं० पृ० २३८ अक्ष० )। यथा यदि वह्निर्न स्यात् तर्हि धूमोपि न स्यात् इति (त० सं० गु०)। अत्र व्याप्यपदं व्याप्यत्वेन ज्ञायमानपरम् । तेन व्याप्यारोपेण तर्के नाव्याप्तिः। आरोपपदं ज्ञानमात्रपरम् । तेनायोगोलके धूमाभावेन वह्नयभावतर्के नाव्याप्तिः। व्यापकारोपेत्यत्रारोपपदं बाधविषयकायथार्थनिश्चयपरम् । तेन हृदो वह्निमान् इत्यनुमितौ नातिव्याप्तिः । बाधनिश्चये अयथार्थत्वनिवेशात् अयोगोलकं धूमाभाववत्स्यात् इति तर्के नातिव्याप्तिः । अयथार्थानुभवस्यैव लक्ष्यत्वात् । इत्थं च व्याप्यत्वेन ज्ञानजन्यत्वे सति बाधविषयकायथार्थनिश्चयत्वं पर्यवसितम् ( वाक्य० गु० पृ० २१ ) । उदाहरणे वह्नयभावो व्याप्यः धूमाभावस्तु व्यापकः इति ज्ञेयम् ( सि० च० गु० पृ० ३४)। [च ] अनिष्टस्य प्रसङ्गः । स
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org