________________
३२३
न्यायकोशः। (त० दी० २ पृ० २१)। तर्के आपाद्यव्यतिरेकनिश्चयः आपाद्यापादकयोाप्तिनिश्चयश्च कारणम् इति (नील० गु० पृ० ३८)। तर्के व्याप्यस्य व्यापकस्य च बाधनिश्चयः कारणम् इति (न्या० बो गु० पृ० २१)। अत्रेदं बोध्यम् । तर्को न प्रमाणसंगृहीतः इति न प्रमाणान्तरम् । अपि तु प्रमाणानामनुग्राहकस्तत्त्वज्ञानाय कल्प्यते । तस्योदाहरणम् किमिदं जन्म कृतकेन हेतुना निर्वय॑ते आहोविदकृतकेन अथाकस्मिकम् इति । एवमविज्ञातेथे कारणोपपत्त्योहः प्रवर्तते । यदि कृतकेन हेतुना निर्वय॑ते हेतूच्छेदादुपपन्नोयं जन्मोच्छेदः । अथाकृतकेन हेतुना ततो हेतूच्छेदस्याशक्यत्वादनुपपन्नोयं जन्मोच्छेदः । अथाकस्मिकम् अतोकस्मान्निवत्यमानं न पुनर्निवय॑तीति निवृत्तिकारणं नोपपद्यते । तेन जन्मानुच्छेद इति । एतस्मिंस्तर्कविषये कर्मनिमित्तं जन्म इत्यत्र प्रमाणानि प्रवर्तमानानि तर्केणानुगृह्यन्ते । तत्त्वज्ञानविषयस्य विभागात् तत्त्वज्ञानाय कल्प्यते तर्क इति । सोयमित्थंभूतस्तर्कः प्रमाणसहितो वादे साधनायोपालम्भाय वार्थस्य भवति इति ( वात्स्या० १।१।१ ) । तर्कः संशयेन्तर्भवतीति कश्चिदाह (त० भा० पृ० ४४ ) । यद्यपि तर्को विपर्ययेन्तर्भवति तथापि प्रमाणानुग्राहकत्वाद्भेदेन कीर्तनम् ( न० दी० गु० पृ० ३८ )। अत्र भाष्यम्। अविज्ञायमानतत्त्वेर्थे जिज्ञासा तावज्जायते जानीयेममर्थम् इति । अथ जिज्ञासितस्य वस्तुनो व्याहतौ धर्मों विभागेन विमृशति किंखिदित्थम् आहोस्विन्नेत्थम् इति। विमृश्यमानयोधर्मयोरेकतरं कारणोपपत्त्या अनुजानाति संभवत्यस्मिन् कारणम् प्रमाणम हेतुः इति । कारणोपपत्त्या स्यात् एवमेतत् नेतरत् इति । तत्र निदर्शनम् । योयं ज्ञाता ज्ञातव्यमर्थ जानीते तं तत्त्वतो जानीय इति जिज्ञासा । स किमुत्पत्तिधर्मकः अथवानुत्पत्तिधर्मकः इति विमर्शः । विमृश्यमाने अविज्ञाततत्त्वेर्थे यस्य धर्मस्याभ्यनुज्ञाकारणमुपपद्यते तमनुजानाति । यदायमनुत्पत्तिधर्मकः ततः स्वकृतस्य कर्मणः फलमनुभवति ज्ञाता। दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरमुत्तरं पूर्वस्य पूर्वस्य कारणम् । उत्तरोत्तरापाये तदनन्तराभावादपवर्ग इति स्यातां संसारापवौं । उत्पत्तिधर्मके ज्ञातरि पुनर्न स्याताम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org