________________
न्यायकोशः। इति तौतातिताः । नेति वैशेषिकादयः इति (न्या० दी० पृ० ४ ) । [ख] द्रव्यगुणकर्मनिष्पत्तिवैधादभावस्तमः (वै० ५।२।१९ )। उद्भूतरूपवद्यावत्तेजःसंसर्गाभाव इत्यर्थः (वै० त० ५।२।२० )। [ग] स्वपरप्रकाशकतेजःसामान्याभावः । यथा अदस्त्वया नुन्नमनुत्तमं तमः। आसादितस्य तमसा नियतेनियोगात् (माघ० स०४ श्लो०३४) इत्यादौ। [] नीलरूपारोपविशिष्टतेजःसंसर्गाभाव इति केचित् ( न्या० दी० पृ० ८)। [6] भाभावः ।. द्रव्यगुणकर्मनिष्पत्तिवैधात् (न्या० क० पृ० १०)। अत्रेदं बोध्यम् । यत्रैव देशे तेजोभावस्तत्रैव देशे तम इत्यभिलप्यते। एवं च सति गच्छता द्रव्येण तेजस आवरणात् आवरकस्य द्रव्यस्य च गमनात् सुतरामेव तमसोपि गतिभ्रम उपपद्यत इति ( त० व० )। तेजसो द्रव्यान्तरेणावरणाच्च (वै० ५।२।२० )। तदर्थश्च गच्छता द्रव्यान्तरेणावृते तेजसि पूर्वदेशानुपलम्भादग्रिमदेशे चोपलम्भात्तेजोभावस्य गच्छद्रव्यसाधाद्गतिभ्रमः । न तु वास्तवी तत्र गतिः । किं च नीलं नभः इति प्रतीतिवत् तमसि नीलरूपवत्ताप्रतीतिरपि भ्रम एव इति । अत्रायं तर्क तमो यदि गतिमत्स्यात् तेजोभावविषयकचाक्षुषसाक्षात्कारविषयो न स्यात् इति । यद्वा तमो यदि गतिमत्स्यात् तेजोभावाविषयकचाक्षुषसाक्षात्काराविषयो न स्यात् इति । अथवा तमो यदि तेजोभिन्नत्वे सति गतिमत्स्यात् तेजोभावविषयकसाक्षात्कारविषयगतिमन्न स्यात् इति ( न्या० दी० पृ० ८ )। रूपवद्रव्यान्तरं इति भट्टा वेदान्तिनः सांख्याः कन्दलीकाराश्चाहुः (वै० वि० १।१।५ ) । अत्रेदमवधेयम् । आलोकस्यान्यत्र चाक्षुषप्रत्यक्षे सहकारित्वेपि तमःप्रत्यक्षे न तत्सहकारस्यावश्यकता वस्तुस्वाभाव्यात् इति भट्टमीमांसकानामाशयः इति । तमसो भावत्वमङ्गीकुर्वाणानां मते तमसः पृथिव्यामन्तर्भावः । अथवा दशमं द्रव्यमतिरिक्तमेव तदिति बोध्यम् । आरोपितं नीलरूपमिति श्रीधराचार्याः। रूपदर्शनाभावस्तम इति प्राभाकराः । आलोकज्ञानाभाव इति प्राभाकरैकदेशिनः ( सर्व० सं० पृ० २२९ औलु० ) ( वै० वि० १।१।५)। अज्ञानं तमः १ अभावः इति पदच्छेदः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org