________________
३१६
न्यायकोशः ।
I
I
तद्धिता: ( पा० सू० ४।१।७६ ) इत्यधिकृत्य यूनस्ति: ( पां० सू० ४।१।७७ ) इत्यारभ्यापञ्चमाध्याय समाप्तेर्यावन्तः प्रत्यया विहितास्ते तद्धितसंज्ञका भवन्ति इति । तत्र सामान्यतस्तद्धितो द्विविधः । प्रकृत्यर्थभिन्नार्थकः स्वार्थिकश्चेति । तद्धितप्रत्ययश्च अपत्यादितत्तदर्थ भेदबोधनेन अण् इञ् ण्य इत्याद्यनेकविधः । तत्रोक्तम् तस्यापत्यं तद्विशेषस्तदृक्षेण युतेन्दुमान् । कालस्तथा तेन रक्तं तस्य व्यूहोथ वेत्ति तत् ॥ अधीते वा देवतास्य सैवमादीन् यथायथम् । बोधयद्विविधानर्थास्तद्धितं स्यादनेकधा ॥ इति । तत्र केचित्तद्धितप्रत्ययास्तत्तदर्थेषु सोदाहरणाः प्रदर्श्यन्ते । यथा अपत्यार्थे अण् मरीचेरपत्यं मारीचः । वेत्तीत्यर्थे निमित्तं वेत्ति नैमित्तः । अधीते इत्यर्थे छान्दसः वैयाकरणः त्रैविद्यश्च । संबन्ध्यर्थे वृक्षस्य संबन्धि वाक्षम् । जातार्थे अमावास्यायां जात आमावास्यो बालकः । गोशालायां जातं गोशालम् । अनुराधायां जातः अनुराधः । अत्राणो लुक् । अपत्यार्थे ईणू दक्षस्यापत्यं दाक्षिः वैयासकिः । ण्यः गर्गस्यापत्यं गार्ग्यः जामदग्न्यः | अपत्यसामान्ये आयनं तदुत्तरं ण्यश्च कौञ्जायन्यः ब्राघ्नायन्यः । अपत्यार्थे एयण - वैनतेयः आत्रेयः जाह्नवेयः द्रौपदेयः । एरण् दासस्यापत्यं दासेरः दासेयोपि । काणाया अपत्यं काणेरः काणेयोपि । चटकायाः पुमपत्यं चाटकैरः । आयनिण् तिकस्यापत्यं तैकायनिः । तस्य ( सर्वनाम्नः ) अपत्यं तादायनिः तादोपि । अपत्यार्थे S ईयः स्वसुरपत्यं स्वस्त्रीयः । समूहार्थे अश्वीयम् । भवार्थे कवर्गीयः
I
I
अङ्गुलीयः मित्रवर्गीयः । अपत्यार्थे व्यः भ्रातुरपत्यं भ्रातृव्यः । अपत्यार्थे यः श्वशुरस्यापत्यं श्वशुर्यः । समूहार्थे धूम्या वन्या । अपत्यार्थे एक कुलस्यापत्यं कौलेयकः । ईनण् कुलीनः । डुरण् षाण्मातुरः । तद्रागयुक्तमित्यर्थे इकण् लाक्षया रक्तं लाक्षिकम् । समूहार्थे कैदारिकम् । तद्वेद तदधीते वा इत्यर्थे नैयायिकः लौकायतिकः । भवार्थे आन्तर्देहिकम् समानदैशिकम् । संज्ञार्थे शरदिका मुद्रभेदाः । रक्तमित्यर्थे अः नीलेन रक्तो नीलः पटः । कः पीतेन रक्तः पीतकः पटः । समूहार्थे अकण्
१ इण् आयनम् इत्यादयः केचित्प्रत्ययाः पाणिनिविहितप्रत्ययापेक्षया भिन्ना एव जगदीशेन कल्पिता इति बोध्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org