________________
न्यायकोशः।
३१५ बोधः । लक्षकसंबन्धस्यैव लक्ष्यतावच्छेदकत्वात् तेन रूपेणैव बोधात् । विशेषणस्यापि भूवादेः क्रियान्वयादजहत्स्वार्थात्र लक्षणा ( त० प्र० ख० ४ पृ० ४९)। [ग] यो बहुव्रीहिः स्वार्थस्यान्वयिनि स्वार्थघटकस्याप्यर्थस्यान्वयबोधने समर्थः स तद्गुणसंविज्ञानः इति प्राचीना आहुः । यथा लम्बकर्णमानय हारग्रीवं पश्येत्यादौ । अत्र हि बहुव्रीहिलम्बकर्णसंबन्धिनः स्वग्रीवावृत्तिहारसंबन्धिनश्च स्वार्थस्यान्वयिनि कर्मत्वादी स्वार्थघटकीभूतस्य तादृशकर्णहारादेरपि व्युत्पत्तिवैचित्र्येण अन्वयबोधने समर्थः इति ( श० प्र० श्लो० ४५ पृ० ५९)। [घ ] परे तु यत्र विशेषणतया स्वार्थस्य विधेयेन्वयः स तद्गुणसंविज्ञानबहुव्रीहिः इत्याहुः । यथा लम्बकर्णमानयेत्यादौ ( त० प्र० ख० ४ पृ० ४९ )। एतत्कल्पे व्युत्पत्तिः तत्र बहुव्रीहौ गुणस्य गुणीभूतस्य विशेषणस्य संविज्ञानम् विशेष्यपारतव्येण बोधनम् यत्र इति वदन्ति । अत्र परेषां मते लम्बकर्णादेः विशेष्यान्वयिनान्वयात् विशेषणतया विधेयान्वयः । विशेषणत्वं च विशेष्यान्वयिनान्वयित्वमेव । नवीनमतानुरोधेन लम्बकर्णस्यापि विशेष्यत्वेनैवान्वयेनुभवबाधः । तस्मात् अत्रापि जहत्स्वाथैव लक्षणा ( त० प्र० ख० ४ पृ० ४९)। भवति च गुणीभूतस्य
कर्णादेरप्यानयने धर्मिपारतत्र्येण धर्मिद्वारा अन्वयबोधः इति । . . तद्धितः- ( प्रत्ययः ) [क] विभक्तिधात्वंशकृद्भयोन्यः प्रत्ययः । यथा
मारीच इत्यादौ अण् दाक्षिरित्यादी इञ् प्रत्ययस्तद्धितः । अत्र नामप्रकृतिकप्रत्ययत्वं न तद्धितस्य लक्षणम् । विभक्तौ क्यजादौ चातिव्याप्तेः । पचतितरामित्यादौ तरबादिष्वव्याप्तेश्च ( श० प्र० श्लो० १०८ पृ० १७२ ) । अतो विभक्तिधात्वंशेत्यायेव लक्षणं युक्तम् इति । अत्रेदम- . वधातव्यम् । वृक्षक इत्यादौ ह्रस्वाद्यर्थकः कादिरपि तद्धित एव इति। अन्ये त्वेवमाहुः । वृक्षक इत्यादी कादिस्तु न तद्धितः । अतः तदन्यत्वेनापि लक्षणे प्रत्ययो विशेषणीयः इति । अत्र षष्ठयन्तान्नाम्नः साक्षात्परंपरासाधारणापत्यसामान्ये बोध्ये अण् इत्युत्सर्गः । तेन मरीचेरपत्यं मारीच इति रूपं सिद्धयति (श० प्र० श्लो. १०८-१११)। [ख] तद्धिताधिकारविहितः प्रत्ययविशेष इति शाब्दिका वदन्ति । अत्रेदं बोध्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org