SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ३१३ ( ० सं० २।४।१ ) ॐ तथान्यत्प्रतिषेधात् ॐ ( ब्रह्म सू० ३।२।३७ इत्यादौ )। यथा वा यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् । तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ ( मनुः ६।९० ) इत्यादौ । ३ समुच्चयः । विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम् (मनुः ३।२८५) ज्ञाननिष्ठा द्विजाः केचित्तपोनिष्ठास्तथा परे ( मनुः ३।१३४ ) इत्यादौ। ४ अभ्युपगमः । ५ पूर्वप्रतिवचनम् । ६ निश्चयः। ७ सत्यम् ( वाच० )। तथा च-१ उक्तस्य दृढीकरणार्थः । यथा निरिन्द्रिया ह्यमत्राश्च स्त्रियोनृतमिति स्थितिः । तथा च श्रुतयो बढयो निगीता निगमेष्वपि ॥ ( मनुः ९।१८ ) इत्यादौ । २ एवं सति इत्येतदर्थः (मध्व० भा० ) । यथा ॐ तथा चैकवाक्योपबन्धात् ॐ (ब्र० सू० ३।४।२४ ) इत्यादौ । एवं सिद्धे सतीत्यर्थः ( तत्त्वप्रकाशिका ३।४।२४ )। तथापि-यद्यपीत्यनेनाक्षिप्तार्थस्य समाधानार्थः। यथा यद्यपि का नो हानिः परस्य द्राक्षां रासभश्चरति । असमञ्जसमिति मत्वा तथापि तरलायते चेतः ॥ ( उद्भटः ) इत्यादौ । तथाहि-१ निदर्शनम् । २ प्रसिद्ध्यर्थः ( शब्दार्थचि० )। ३ उक्तार्थ दृढीकरणम् । यथा ॐ छन्दोभिधानान्नेति चेन तथा चेतोर्पणनिगदा त्तथा हि दर्शनम् ॐ (७०. सू० १।१।२५ )। तथैव-तद्वदेवेत्यर्थः । तत्समुच्चयावधारणम् ( शब्दार्थचि०)। यथा अस्ति पुत्रो वशे यस्य भार्या भस्तिथैव च ( चाणक्यः ) इत्यादौ । तदन्यबाधितार्थप्रसङ्गः– ( तर्कः ) आत्माश्रय अन्योन्याश्रय चक्रक अन वस्था इत्युक्तचतुष्कान्यः प्रमाणबाधितार्थस्य प्रसङ्गः । स द्विविधः व्याप्तिग्राहकः विषयपरिशोधकश्च । विषयस्य व्यभिचारशङ्कानिवृत्तिद्वारा निश्चायकत्वेन परिशोधकत्वं बोध्यम्। तत्राद्यो यथा धूमो यदि वहिव्यभिचारी स्यात्तदा वह्निजन्यो न स्यात् इति । द्वितीयस्तु पर्वतो यदि निर्वह्निः स्यात् निधूमः स्यात् इत्यादिः (जग० ) (गौ० वृ० १।१।४०)। ४. न्या• को. . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy