________________
न्यायकोशः।
दादीनि पञ्चविंशतिस्तत्त्वानि इति निरीश्वरसांख्याः कपिलादयः ( सर्व० सं० पृ० ३११ सां० )। [११] ईश्वराधिकानि तानि (२५) इति षड्विंशतिस्तत्त्वानि इति सेश्वरसांख्या पतञ्जल्यादयः ( सर्व० सं० पृ० ३३३ पातञ्जल०)। [१२] अशेषविशेषप्रत्यनीकं चिन्मात्रं ब्रह्मैकमेव तत्त्वम् इति मायावादिनो वेदान्तिनः ( सर्व० पृ० ९२ रामा० )। [ १३ ] विलम्बितं नृत्यवाद्यादि तत्त्वम् इति नाट्यशास्त्रज्ञा आहुः । [ १४ ] चेतः स्वरूपं च तत्त्वम् इति काव्यज्ञा आहुः इति ( वाच०)। शाक्तास्तु मद्यं मांसं तथा मत्स्यो मुद्रा मैथुनमेव च । पञ्चतत्त्वमिदं प्रोक्तं देवि निर्वाणहेतवे ।। मकारपञ्चकं देवि देवानामपि दुर्लभम् इत्याहुः ( गुप्तसाधनतत्रे ७ पटले ) । वैष्णवास्तु गुरुतत्त्वं मत्रतत्त्वं मनस्तत्त्वं सुरेश्वरि । देवतत्त्वं ध्यानतत्त्वं पञ्चतत्त्वं प्रकीर्तितम् ।। इत्याहुः
(निर्वाणतत्रे ) ( वाच० )। तत्परत्वम्-१ तात्पर्यम् । तत्परस्य भावः तत्परत्वम् । २ पौराणिकास्तु
निष्ठा । यथा भगवद्भक्तितत्परः इत्यादौ इत्याहुः । तत्पुरुषः- ( समासः ) [क] यदर्थगतेन सुबर्थेन विशिष्टस्य यदर्थस्या
न्वयबोधं प्रति यः समासः स्वरूपयोग्यः स तदर्थस्य तदर्थे तत्पुरुषः । यथा ग्रामगतः इत्यादिः ( श० प्र० श्लो० ३८ पृ० ४८ )। [ख] समासप्रयुक्तलक्षणाशून्योत्तरनामकत्वे सति लुप्त द्वितीयादिविभक्तिकपूर्वनामकसमासः । यथा राजपुरुषः इति । अत्र लक्षणे पश्चपूलीत्यादिवारणाय सत्यन्तम् । नीलोत्पलमित्यादिवारणाय लुप्तद्वितीयादिविभक्तिकेति आब्राह्मणमित्याद्यव्ययीभाववारणाय पूर्वेति च नामविशेषणम् । राजपुरुष इत्यत्र समासप्रयुक्तलक्षणायाः पूर्वपद एव स्वीकारात् सत्यन्तविशिष्टविशेव्यसत्त्वात् लक्षणसमन्वयः (म० प्र० ४ पृ० ४३)। [ग] शाब्दिकाश्च तत्पुरुषाधिकारविहितः समासस्तत्पुरुषः इत्याहुः । तन्मते स च तत्पुरुषः प्रकारान्तरेण त्रिविधः । व्यधिकरणपदघटितः समानाधिकरणपदघटितः संज्ञानवबोधकसंख्यावाचकपदघटितश्चेति। तत्र संज्ञानवबोधकसंख्यापूर्वकसमानाधिकरणपघटितस्तत्पुरुषो द्विगुरित्युच्यते । द्विगुविषयपरिहारेण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org