________________
३१०
न्यायकोशः। भूतमविपरीतम् तत्त्वं भवति ( वात्स्या० १।१।१ प्रस्तावना ) । यथा प्रमाणप्रमेय.........तत्त्वज्ञानानिःश्रेयसाधिगमः ( गौ० १११११) इत्यादौ प्रमेयादिकं तत्त्वम् । [ख] यो यथावस्थितः पदार्थः स तथाभूतप्रत्ययोत्पत्तिनिमित्तं यत्तत् (न्या० वा० १ पृ० १२ )। [ग] अनारोपितं तत्त्वम् । प्रमितिविषय इति यावत् । इति वेदान्तिनः श्रीपूर्णप्रज्ञाचार्यमतानुयायिनः प्राहुः ( तत्त्वसंख्या० टी० )। [घ] याथातथ्यम् ( वात्स्या० ११११४०)। यथा अविज्ञाततत्त्वे ( गौ० १।१।४० ) इत्यादौ । यथा वा कार्य सोवेक्ष्य शक्ति च देशकालौ च तत्त्वतः ( मनुः ७।१० ) इत्यादौ । [ ङ ] वार्तिककारास्तु पदार्थानां यथावस्थितात्मप्रत्ययोत्पत्तिनिमित्तत्वम् इत्याहुः (न्या० वा० १ पृ० १२)। [च ] काव्यज्ञास्तु स्वभावः । यथा निस्तत्त्वाः इत्यादौ इत्याहुः ( वाच० ) । मतभेदेन तत्त्वानि प्रदर्श्यन्ते । [ १ ] स्वतश्रास्वतत्रभेदेन द्विविधं तत्त्वम् इति द्वैतवादिनः श्रीपूर्णप्रज्ञाचार्या वेदान्तिनः प्राहुः ( तत्त्वसं० टी० )। [ २ ] सदसदुभयानुभयात्मकचतुष्कोणविनिर्मुक्तं शून्यमेव तत्त्वम् इति शून्यवादिनो बौद्धाः ( सर्व० पृ० २९ बौद्ध० )। [ ३ ] पृथिव्यादीनि चत्वारि भूतानि तत्त्वानि इति चार्वाका आहुः ( सर्व० पृ० २ चार्वा० )। [ ४ ] जीवाजीवाख्ये द्वे तत्त्वे इत्याहताः (सर्व० सं० पृ० ६७ आहे.)। [५] जीवाकाशधर्माधर्मपुद्गलास्तिकायाः पञ्च तत्त्वानि इत्याहतैकदेशिनः(सर्व० सं० पृ० ६९ आहे. )। [६] जीवाजीवास्रवबन्धसंवरनिर्जरमोक्षाः सप्त तत्त्वानि इत्यपर आर्हतैकदेशिनः ( सर्व० सं० पृ० ७३ आहे. )। [७] द्रव्याद्रव्यभेदेन द्विविधं तत्त्वम् इति रामानुजीयाः ( सर्व० पृ० ११२ रामा० )। [ ८ ] पतिपशुपाशेषु त्रिषु पदार्थेषु पृथिव्यादीनि पञ्च तत्त्वानि इति पाशुपतशास्त्रकोविदा नकुलीशाचार्याः ( सर्व० पृ० १३५ नकु० ) । [९] पृथिव्यादिकलापर्यन्तानि त्रिंशत्तत्त्वानि पुर्यष्टकपदवाच्यानि कलाकालनियतिविद्यारागप्रकृतिगुणाख्यानि सप्त तत्त्वानि इति च शैवा आहुः (सर्व० पृ० १८५ शैव०)। [१०] मह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org