________________
न्यायकोशः। केशपाशं प्रसमीक्ष्य कुर्युः (कुमार० सं० १९४८) इत्यादौ । अत्र सेति प्रसिद्धार्थत्वान्न यच्छब्दापेक्षा । तदुक्तं काव्यप्रकाशे प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यच्छब्दोपादानं नापेक्षते इति (कुमार० मल्लि० ५।७१ ) । यथा वा तत् सत्यम् स आत्मा तत्त्वमसि श्वेतकेतो (छा० उ० ) इत्यादौ । तदुक्तम् ॐ तत्सदिति निर्देशो ब्रह्मणत्रिविधः स्मृतः ( गीता० १७.२३ ) इति । ३ अनुभूतम् । यथा ते लोचने प्रतिदिशं विधुरे क्षिपन्ती ( रत्नावली ) इत्यत्र । ४ हेतुः । यथा संतप्तानां त्वमसि शरणं तत् पयोद प्रियायाः ( मेघ० पूर्व० श्लो० ७) तदङ्गमग्र्यं मघवन् महाकतोः ( रघु० स० ३ श्लो० ४६ ) इत्यादौ । ५ तदा इत्येतदर्थः । यथा ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत् किं कर्मणि घोरे माम् ( गीता अ० ३ श्लो० १ ) इत्यादी । तत्त्वज्ञानम्-[क] यथार्थज्ञानम् । अत्रोक्तम् । तत्त्वज्ञानं तु खलु मिथ्या
ज्ञानविपर्ययेण व्याख्यातम् (वात्स्या० १।१।२)। तच्च ईश्वरनोदनाभिव्यक्ताद्धर्मादेव ( प्रशस्त० भा० १।१।१ पृ० ११)। ईश्वरनोदना उपदेशः । वेद इति यावत्। तेनाभिव्यक्तात्प्रतिपादिताद्धर्मादेव भविष्यति इत्यर्थः ( किर० १।१।१ पृ० ११)। [ख] यथावस्थितपदार्थाधिगतिः । तच्च प्रमाणम् (न्या० वा० पृ० ४) । यथा सति घटादिवन्तुनि सत् इति ज्ञानम् । असति च शशशृङ्गादौ असत् इति ज्ञानम् । [ग] निखिललोकविमोक्षमुख्योपायं मननोपायमात्मनस्तत्त्वज्ञानमामनन्ति ( न्या० म० १ पृ० १)। यथा आत्मा शरीरादिभ्यो भिन्नः इत्याकारकं ज्ञानम् (त० प्र० १ पृ० ५)। यथा वा आत्मादेः खलु प्रमेयस्य तत्त्वज्ञानानिःश्रेयसाधिगम इत्यादौ (वात्स्या० १।१।१) । इदं तत्त्वज्ञानं च परमात्मविषयकम् निःश्रेयससाधनं चेति बोध्यम् । [घ ] इतरनिवृत्तिपूर्वको ब्रह्मात्मावगम इति मायावादिनो वदन्ति । [3] भगवद्विषयक
मपरोक्षज्ञानमिति द्वैतवादिनो वेदान्तिन आहुः ।। तत्त्वम्-[क] सतश्च सद्भावः असतश्चासद्भावः । सत् सत् इति गृह्यमाणं
यथाभूतमविपरीतम् तत्त्वं भवति । असञ्च असत् इति गृह्यमाणं यथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org