________________
३०८
न्यायकोशः। कारणत्वं ब्रह्मणो लक्षणम् इति ज्ञेयम् ( वेदा० प० वि० ) ( वाच०)। यतो वा इमानि ( तै० उ० २१.१ ) इत्यादीनि वाक्यानि ब्रह्मणः
तटस्थलक्षणम् ( सर्व० सं० पृ० ४६७ शांक० )। तत्-१ [क] वक्तृबुद्धिविषयः तत्पदार्थः । यथा तौ गुरुर्गुरुपत्नी च
(रघु० स० १ श्लो० ५७ ) ते हिमालयमामय ( कुमार० स० ६ श्लो० ९४ ) इत्यादौ । [ख] केचित्तु परोक्षबुद्धिविषयः तच्छब्दार्थ इति वदन्ति ( दि० ४ पृ० १७९) । इदमस्तु संनिकृष्टं समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षं विजानीयात् ॥ इत्यमियुक्तोक्तेः ( मनो०)। [ग] कचित् यत्पदप्रतिपाद्यतया वक्तृबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नः। इयं च व्युत्पत्तिः प्रक्रम्यमाणपरामर्शकतच्छब्दस्य द्रष्टव्या । यतः प्रक्रम्यमाणपरामर्शकतच्छब्देन नियमतो यत्पदमपेक्ष्यते । यथा तमानय य इहास्ति इत्यादौ (ग० शक्ति० टी० पृ० ११५ )। यथा वा स किंसखा साधु न शास्ति योधिपम् ( किरा० स० १ श्लो० ५ ) इत्यादौ । [घ ] शाब्दिकास्तु यत्पदप्रतिपाद्यतया वक्तृबुद्धिविषयो विधेयभूतः तत्पदार्थ इति वदन्ति । [] कचित् स्वोच्चारकपुरुषप्रयुक्तपूर्वपदजन्योपस्थितिविषयतावच्छेदकत्वोपलक्षितस्वप्रयोजकबुद्धिविषयतावच्छेदकधर्मावच्छिन्नः । अत्रोपस्थितिश्च स्वविशेष्यकवृत्तिज्ञानाधीना ग्राह्या । अतः पशुरस्ति तं पश्येत्यादौ पश्वादिपदोपस्थापितलोमादीनां तदादिशब्देन न परामर्शः । इयं व्युत्पत्तिः प्रक्रान्तपरामर्शकतच्छब्दस्य द्रष्टव्या । यतः तत्र यत्पदापेक्षानियमो नास्ति । यथा तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥ ( रघु० स० १ श्लो० १२ ) इत्यादौ । अत्र वैवस्वतादिपदोपस्थाप्यस्यापि तच्छब्देन परामर्शान्न यत्पदापेक्षेति ज्ञेयम् (ग० शक्ति पृ० ११५ ) । २ प्रसिद्धम् । प्रसिद्धत्वं चानेकज्ञानविषयत्वम् (ग० शक्ति० टी० पृ० ११६ )। यथा द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः। कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥ ( कुमार० सं० ५।७१ ) तं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org