________________
न्यायकोशः।
ज्वाला-दर्भपिञ्जुलैः प्रज्वालनम् (जै० न्या० अ० १० पा० १ ___ अधि ११ )।
टिप्पनी—१ टीकायाष्टीका । सा च टीकाव्याख्यारूपतयैव व्यवह्रियते ।
यथा चिन्तामणिटीकाया दीधित्याख्यव्याख्याष्टीका जगदीशकृता जगदीशी गदाधरकृता गदाधरी च टिप्पनी। यथा वा ब्रह्मसूत्राणां भाष्यस्य व्याख्या तत्त्वप्रकाशिकाख्या जयतीर्थभिक्षुकृता पाणिनिसूत्राणां महाभाष्यस्य व्याख्या कैयटकृता इत्यादि । २ प्रथमव्याख्यापि टिप्पनीत्युच्यते। यथा श्रीमतङ्गाननं नत्वा लीलावत्याः सुटिप्पनी । भवेशेन सुबोधार्थं क्रियते
यद्गुरोः श्रुतम् ॥ टिप्पनी दायभागस्य श्रीनाथेन विधीयते इत्यादौ। टीका—मूलग्रन्थस्य अप्रतिपत्तिविप्रतिपत्त्यन्यथाप्रतिपत्तिनिवारणेन तत्कर्तुरभिप्रेतार्थस्य शब्दान्तरेण विवरणम् । यथा श्रीमद्भागवतस्य टीका विजयध्वजी।
ढुण्ढा–टुण्ढा नामेति विख्याता राक्षसी मालिनः सुता । तया चाराधितः ___ शंभुरुग्रेण तपसा पुरा ॥ ( पु० चि० पृ० ३०८ )।
णिः-(धात्वंशः प्रत्ययः ) अयं धातुप्रकृतिकः प्रत्ययो बोध्यः ( श० प्र०
श्लो० १०७ पृ० १६९ )। अनुकूलव्यापारः व्पापारमात्रं वा जेरर्थः । यथा चैत्रं भावयति आत्मानं गमयतीत्यादौ ण्यर्थः ( श० प्र० श्लो० १०७ पृ० १६९ ) (ग० व्यु० का० २ पृ० ४८ )। केचित्तु णिजों हेतुकर्तृत्वम् । हेतुमति च ( पा० सू० ३।१।२६ ) इति पाणिन्यनुशासनात् । तच्च स्वतन्त्रकर्तृप्रेरणा अन्यनिष्ठकर्तृत्वनिर्वाहकव्यापाररूपा इत्याहुः । अत्र कर्तृत्वं कचित्प्रयत्नः । क्वचिदाश्रयत्वादिकम । यादृशधातूत्तराख्यातेन यादृशकर्तृत्वं बोध्यते तदुत्तरणिच्प्रत्ययेन तादृशकर्तृत्वनिर्वाहकव्यापारो बोध्यते । अत एव पाचयतीत्यादौ पाकादिकृति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org