SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ३०५ ज्ञानजनकत्वम् । यथा श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक् संकल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ ( याज्ञ० ११७) इत्यादौ श्रुत्याइर्धर्मज्ञापकत्वम् इत्याहुः । ज्ञापनम्-[क] ज्ञानानुकूलशब्दः । [ख] ज्ञानानुकूलव्यापारः । यथा चैत्रं स्ववृत्तान्तं मैत्रं ज्ञापयतीत्यादौ । [ग] शाब्दिकास्तु ज्ञानानुकूलव्यापारानुकूलव्यापारः इत्याहुः। . ज्ञाप्यत्वम्-१ जन्यज्ञानविषयत्वम् । यथा धूमावह्निमानित्यादी वह्नयन्वयि ज्ञाप्यत्वं पञ्चम्यर्थः ( ग० अव० हेतु० )। अयमर्थो नवीनमतानुसारेण । प्राचीनमते तु ज्ञापकत्वमेव पञ्चम्यर्थः इति बोध्यम् । २ ज्ञान जन्यत्वमिति केचिद्वदन्ति । ज्ञेयत्वम्-[क] ज्ञानविषयत्वम् (मु० १ साधर्म्य० पृ० ४५ )। यथा भूतलं घटवत् इति चाक्षुषप्रत्यक्षे घटस्य ज्ञेयत्वम् । यथा वा ज्ञेयं यत्तप्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ( गीता १३।१२ ) ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् ( गीता १३।१७ ) इत्यादौ । [ख] भगवज्ज्ञानविषयत्वम् (न्या० म० २ पृ० १९) (त० दी० २ पृ० २३ ) । यथा घटपटादेः सर्वस्य जगतो ज्ञेयत्वम् । तत्र केवलान्वयि ' (मु० १ साधर्म्य० पृ० ४५ )। यथा वा इदं वाच्यं ज्ञेयत्वादित्यादौ (मु० २)। ज्येष्ठत्वम्- १ कालकृतः परत्वविशेषः ( सि० च० पृ० १८ ) । यथा रामस्य लक्ष्मणमपेक्ष्य ज्येष्ठत्वम्। २ बहुतरसूर्यस्पन्दान्तरितजन्यत्वम् इति नव्या आहुः (दि० गु० पृ० २०९) । कालकृतो विप्रकर्ष इत्यर्थः । नव्यमते परत्वस्य गुणान्तरत्वं नास्ति इति भावः । ३ स्मार्तास्तु उत्कर्षः श्रेष्ठत्वं वा । यथा विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः । वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ ( मनुः २।१५५) इत्यादौ ज्येष्ठत्वम् इत्याहुः । ज्योतिर्मत्रः-तारव्योमाग्निमनुयुग्ज्योतिर्मन उदाहृतः ( सर्व० सं० पृ० ३७० पात० )। ३९ न्या०को Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy