________________
न्यायकोशः। लौकिकं प्रत्यक्षं जन्यते। तथा च सुरभि चन्दनमित्यत्र सौरभांशे अलौकिकत्वम् चन्दनांशे लौकिकत्वम् इति ( वाच० ) । अत्र च सुरभित्वज्ञानं ( स्मरणम् ) तु सुरभि चन्दनम् इति चाक्षुषोपनीतभानं जनयतीति विज्ञेयम् । यत्र सौरभज्ञानलक्षणया चाक्षुषसामग्र्या च सुरभि चन्दनखण्डम् इति सौरभांशे अलौकिकम् चन्दनखण्डांशे लौकिकं चाक्षुषं जायते तत्र सौरभज्ञाने सौरभप्रत्यक्षे जननीये सौरभस्मरणमेव प्रत्यासत्तिः । सौरभांशे चक्षुःसंनिकर्षासंभवात् (सि० च० १ पृ० २३ )। सौरभस्य चक्षुरयोग्यत्वेन चक्षुःसंयुक्तचन्दनसमवायस्य तत्र सत्त्वेप्यप्रयोजकत्वात् इति (त० कौ० १ पृ० ९) । एवम् रज्जुसादिबोधेपि सर्पत्वाद्युपस्थितिमा॑नलक्षणसंनिकर्षादेव भवति । यतः सर्पत्वादौ चक्षुःसंनिक भावादिति ( त० व० )। एवं यत्र धूमत्वेन धूलीपटलं ज्ञातं तत्र धूलीपटलस्यानुव्यवसाये भानं ज्ञानलक्षणया भवति । अयं च ज्ञानलक्षणः संनिकर्षः षडिन्द्रियसहकारी इति संप्रदायविद आहुः । मनस
एव सहकारी इति शूलपाणिमिश्रा अमन्यन्त (त० कौ० १ पृ०९)। ज्ञानाध्यासः-प्रमाणदोषसंस्कारजन्मान्यस्य परात्मता । तद्धीश्चाध्यास इति
हि द्वयमिष्टं मनीषिभिः ( सर्व० सं० पृ० ४२० शां० )। ज्ञानेन्द्रियम्-( इन्द्रियम् ) ज्ञानजनकमिन्द्रियम् । ज्ञानेन्द्रियाणि षट् ।
श्रोत्रम् त्वक् चक्षुः रसनम् घ्राणम् मनश्चेति । एतानि मनोव्यतिरिक्तानि बहिरिन्द्रियाणि । मनस्तु अन्तरिन्द्रियम् । दिग्वातार्कप्रचेतोश्विनो बहिरिन्द्रियाणां देवता ज्ञेयाः । तद्विषयाश्च शब्दस्पर्शरूपरसगन्धाः इति । अन्तरिन्द्रियस्य मनसः विषयस्तु सुखादिकम् चन्द्रमा देवता इति ज्ञेयम् । अत्रेदमवधेयम् नैयायिकमते ज्ञानेन्द्रियातिरिक्तानामिन्द्रियत्वं नास्त्येव इति । अधिकं तु इन्द्रियशब्दव्याख्यानावसरे संपादितमिति
नात्र तन्निरूप्यते। ज्ञापकत्वम्-१ जनकज्ञानविषयत्वम् । यथा पर्वतो वह्निमान् धूमादित्यादौ
धूमस्य ज्ञापकत्वम् (ग० अव० हेतु०) । अत्र ज्ञापकत्वं च परामर्शीय- प्रकारत्वविशेष्यत्वैतदन्यतरवत्त्वमिति केचिद्वदन्ति । २ धर्मज्ञास्तु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org