________________
न्यायकोशः। मात्रद्योतकं निर्विकल्पकम् सविकल्पकं च । तत्र सविल्पकं संज्ञादिद्योतकत्वादनेकधा । तथा हि संकल्पसंशयभ्रान्तिस्मृतिसादृश्यनिश्चयाः । उहोनध्यवसायश्च तथान्येनुभवा अपि ॥ इत्यादि ( वाच० )। वैशेषिकमतेपि ज्ञानं द्विविधम् । विद्या अविद्या च। तत्र विद्या चतुर्विधा प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा । अविद्यादि चतुर्विधा संशयविपर्ययस्वप्नानध्यवसायलक्षणा इति (वै० उ० ८।१:२ )। ७ ध्यानोपासनादि
शब्दवाच्यं वेदनं ज्ञानम् ( सर्व० सं० पृ० १२१ रामानु० )। ज्ञानलक्षणः-( संनिकर्षः) स्वविषयविषयकप्रत्यक्षजनको ज्ञानविशेषः
( स्मरणम् ) । यथा सुरभित्वज्ञानम् ( भा० ५० १ श्लो० ६६) (मु० १ पृ० १३१ ) ( त० व० ) । अत्रेदमवधेयम् । अयं संनिकर्षः स्मृत्यात्मकः अलौकिकप्रत्यक्षे कारणं भवति । ज्ञानलक्षणसंनिकर्षेण तद्विषयीभूततत्तत्पदार्थानां प्रत्यक्षं मनसा जन्यते । कथमन्यथा ( ज्ञानलक्षणसंनिकर्षास्वीकारे ) कविकाव्यमूलभूततत्तत्पदार्थसंसर्गज्ञानम् (त० को ०.१ पृ० ९)। किंच ज्ञानलक्षणसंनिकर्षास्वीकारे यत्र सौरभत्वजात्युपस्थित्यनन्तरं सुरभिर्गन्धः इतिवत् सुरभि चन्दनम् इत्याकारकं सौरभत्वप्रकारेण चन्दनस्य भ्रमात्मकं चाक्षुषम् तत्र सौरभत्वजातेर्भानं न स्यात् । नहि तत्र सुरभिगन्धस्य भानसंभवः । येन सुरभिगन्धभासनेन सामान्यलक्षणायास्तद्धर्मप्रकारकतदाश्रयप्रत्यक्षं प्रत्येव हेतुतया सौरभत्वप्रत्यासत्तेः कार्यतावच्छेदकतयैव सौरभत्वजातेर्भानं भविष्यति इति संभावनीयम् (जग०) ( वाच० )। तादृशं स्मरणं च यद्विषयकम् तद्विषयकसाक्षात्कारजनिका प्रत्यासत्तिः । सुरभि चन्दनम् इति चाक्षुषे सौरभस्य सौरभत्वस्य वा भानं ज्ञानप्रत्यासत्त्यैव (म० प्र० १ पृ० २२ )। अयं च यद्विषयकं ज्ञानं जननीयम् तस्यैव संनिकर्षः । अत एव सुरभि चन्दनमित्यादौ सौरभत्वादेरपि भानमिति ( दीधि० )। ज्ञानलक्षणसंनिकर्षेण ( स्मरणेन ) पूर्वज्ञातवस्तुनः अलौकिकप्रत्यक्षं जन्यते । यथा सुरभि चन्दनम् इति चाक्षुषे चन्दनस्य चक्षुर्माह्यत्वेपि सौरभस्य तद्ग्राह्यत्वात् पूर्वज्ञातस्य सौरभस्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org