________________
न्यायकोशः। (ग० व्यु० का० २ ख० १ पु० ५१ )। एवं च घटनिष्ठविषयतानिरूपितविषयिताश्रयीभूतं यज्ज्ञानं तदाश्रयश्चैत्रः इति शाब्दबोधः । घटादिनिष्ठं ज्ञानादिकर्मत्वं च ज्ञानादिविषयत्वमेव । विषयत्वादौ च द्वितीयाया लक्षणैव न तु शक्तिः इति सांप्रदायिका आहुः। चैत्रेण घटो ज्ञायते इत्यत्र कर्माख्यातेन घटादौ धात्वर्थज्ञाननिरूपितं विषयत्वं बोध्यते (ग० व्यु० का० २ पृ० ५१ )। तथा च चैत्रेणेति तृतीयाया अर्थः चैत्रान्वितं समवेतत्वम् । तस्य च धात्वर्थे ज्ञानेन्वयः । तस्य ज्ञानस्य चात्मनेपदार्थविषयत्वेन्वयः । तस्य तादृशविषयत्वस्य घटेन्वयः । एवं च चैत्रसमवेतज्ञानविषयो घटः इति शाब्दबोधः । [ख] शाब्दिकाश्च पतञ्जलिप्रभृतयः ज्ञानानुकूलव्यापारः ज्ञाधात्वर्थः । (ल० म० धात्वर्थ० पृ० ६ ) ( वै० सा० द० धात्व० पृ० ६३)। यथा देवदत्तो घटं जानातीत्यादौ जानात्यर्थः इत्याहुः ( वै० सा० धात्व० पृ० ४६ ) । अत्र विषयतया ज्ञानं फलम् । आत्ममनःसंयोगो व्यापारः । अत एव मनो जानाति इत्युपपद्यते ( ल० म० धात्वर्थ ० पृ० ६)। आत्ममनःसंयोग इत्यत्रात्मान्तःकरणम् । मनोपि तद्वृत्तिविशेषरूपम् (ल० म० धात्वर्थ० पृ० ६)। अत्र देवदत्ताभिन्नाश्रयको ज्ञानाद्यनुकूलो वर्तमानो व्यापारः इति बोधः (वै० सा० धात्व० पृ० ४६ )। [ग] अन्ये तु शाब्दिकाः विषयावच्छिन्नावरणभङ्गादिफलानुकूलव्यापारः । यथा घटं जानातीत्यादौ धात्वर्थः इत्याशशङ्किरे (वै० सा० धात्वर्थ० पृ० ६२ )। अतीतानागतादिपरोक्षस्थलेपि । ज्ञानजन्यस्य तादृशफलस्यावश्यकत्वम् । अत एव ज्ञादिधातोः सकर्मकत्वमुपपद्यते। ज्ञानस्यैव फलत्वाङ्गीकारे तदनाश्रयत्वाद्धटादेः कर्मत्वानुपपत्तिः इति भावः । ( वै० सा० धात्वर्थ० पृ. ६२)। स च व्यापारोर्थप्रकाशरूपः । अत्रेदं ज्ञेयम् । ज्ञाकवादिधातुषु सकर्मकत्वव्यवहारो भाक्त इति नैयायिकसिद्धान्तः (वै० सा० धात्व० पृ० ६०)। ज्ञातता-१ ज्ञानविषयता (त० भा० प्रमाण० पृ० २२) । अत्रेदमव
धेयम् । ज्ञातता ज्ञानविषयत्वम् । तच्च स्वरूपसंबन्धमेव । यथा ज्ञातो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org