________________
न्यायकोशः। जीवन्मुक्ति:-(निःश्रेयसम्) [क] योगजादृष्टजन्येतत्त्वंसाक्षात्कारः
( न्या० सि० दी० पृ० २९)। इयं चापरनिःश्रेयसमित्युच्यते । जीवन्मुक्तेरुपायास्तु श्रवणमनननिदिध्यासनतत्त्वज्ञानानि योगाभ्यासादयश्च । तत्रोक्तकुलाचारा अपि तदुपायाः । यथोक्तम् जीवन्मुक्तावुपायस्तु कुलमार्गो हि नापरः इति ( तत्रम् ) ( वाच०)। यथा शुकजनकादीनां जीवन्मुक्तिः । अत्र मायावादिन आहुः । जीवन्मुक्तो नाम स्वस्वरूपाखण्डब्रह्मज्ञानेन तदज्ञानबाधनद्वारा स्वस्वरूपाखण्डब्रह्मणि साक्षात्कृते अज्ञानकार्यसंचितकर्मसंशयविपर्ययादीनामपि बाधितत्वादखिलबन्धरहितो ब्रह्मनिष्ठः इति (वेदान्तसा०)। [ख] अवधारितात्मतत्त्वस्य नैरन्तर्याभ्यासापहृतमिथ्याज्ञानस्य प्रारब्धं कर्मोपभुञ्जानस्य
जीवतः सत एव जायमानश्वरमदुःखध्वंसः ( गौ० वृ० १।१।१ )। जैमिनिः-सामवेदाध्ययनेन वेदव्यासशिष्य ऋषिविशेषः । अत्र श्रूयते .. साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् ( भाग० स्क० १२ ___अ० ६ श्लो० १८) इति । स च जैमिनिः अथातो धर्मजिज्ञासा . (जै० सू० १।१।१ ) इत्यारभ्य अन्वाहार्ये च दर्शनात् ( जै० सू०
१२।४ ४६) एतत्पर्यन्तं द्वादशाध्यायात्मकं सूत्रबद्धं कर्मकाण्डाख्यं
धर्ममीमांसादर्शनं प्रणिनाय। ज्ञप्तिः-१ ज्ञानम् । २ मारणम् । ३ तोषणम् । ४ स्तुतिः । ५ तीक्ष्णी
करणम् ( वाच०)। ज्ञा-(धातुः) [क] ज्ञानम् । यथा चैत्रो घटं जानाति चैत्रेण घटो , ज्ञायते इत्यादौ धात्वर्थः ( वै० सा० धात्व० पृ० ५७ )। चैत्रो घटं जानातीत्यत्र प्राचीनमते द्वितीयार्थो विषयत्वम् । तत्र प्रकृत्यर्थस्य घटादेः आधेयतासंबन्धेनान्वयः । तस्य द्वितीयार्थस्य विषयत्वस्य धात्वर्थे ज्ञाने निरूपकत्वसंबन्धेनान्वयः । नवीनमते तु विषयित्वं द्वितीयार्थः । अयमाशयः । वृत्त्यनियामकसंबन्धस्याभावप्रतियोगितानवच्छेदकतया घट जानाति पटं न इत्यादी अन्वयस्य अनुपपत्तिः । अतोयमर्थः स्वीकार्यः इति । तस्य च धात्वर्थज्ञान आश्रयता-(खरूपाख्य-) संबन्धेन्मन्वयः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org