________________
न्यायकोशः।
२९९ मत्राणसंख्यया तद्धि जीवनं संप्रचक्षते (सर्व० सं० पृ० ३६९ पातञ्ज०)। जीवनयोनियत्नः—(प्रयत्नः ) [क] साहजिकप्राणसंचारविषयकयत्नः
(दि० गु०)। स च प्राणसंचारकारणम् यावज्जीवमनुवर्तते । स चातीन्द्रियः शरीरे प्राणसंचारानुमेयश्च इति बोध्यम् ( वै० उ० ५।२।१६) ( भा० ५० श्लो० १५३ )। तथाहि शरीरे अधिकश्वासादिः प्राणसंचारो यत्नसाध्यतया दृष्टः । इत्थं च प्राणसंचारस्य सर्वस्य सुषुप्त्यवस्थायां जायमानस्यापि यत्नसाध्यत्वानुमानात् प्रत्यक्षप्रयत्नबाधाचातीन्द्रिययत्नसिद्धिः । स च प्राणसंचारहेतुत्वेनानुमीयमान एव जीवनयोनियत्नः इति ज्ञेयम् (मु० गु० पृ० २३१ ) । अयं भावः । दृष्टो हि धावतः पुरुषस्य प्रत्यक्षप्रयत्नोत्कर्षणाधिकश्वासादिरूपप्राणसंचारोत्कर्षः । इत्थं च एकत्र यत्नसाध्यत्वस्यानुभविकत्वेन तदृष्टान्तेन प्राणसंचारत्वावच्छेदेन सर्वत्र भोक्तयत्नजन्यत्वानुमानम् इति ( दि०गु०पृ० २३२) । एतदुक्तं भवति । धावतः प्रयत्नोत्कर्षेण श्वासक्रियोत्कर्षदर्शनात् श्वासक्रियात्वावच्छिन्ने एव यत्नजन्यत्वनिश्चयः। यद्विशेषयोः कार्यकारणभावः असति बाधके तत्सामान्ययोरपि इति न्यायाज्जीवनयोनियत्नसिद्धिः — ( त० प्र० ख०.४ पृ० ९७ )। नव्यनैयायिकास्तु जीवनयोनियत्नं
नाङ्गीचक्रुः । अयं भावः । प्राणक्रियाया अदृष्टविशेषप्रयोज्यात्ममनोयोगरूपान्जीवनात् तत्प्रयोजकादृष्टाद्वा संभवात् उक्तानुमानस्याप्रयोजकत्वम् । अन्यथा एकत्र यत्ने ज्ञानजन्यत्वदृष्टान्तेन जन्ययत्नत्वावच्छेदेन ज्ञानजन्यत्वकल्पनापत्त्या सुषुप्तौ ज्ञानादेरप्यतीन्द्रियस्य कल्पनापत्तिः । एवं च जीवनयोनियत्नस्वीकारे मानाभावः इति (दि० गु० पृ० २३२)। [ख] जीवनादृष्टजन्यो गुणः (सि० च० पृ० ३५)। [ग] श्वासप्रश्वासहेतुर्यत्नः (त० कौ० गु० पृ० १९) (सि० च० पृ० ३५ ) । सुषुप्तिदशायामपि आत्मनो येन प्रयत्नेन प्राणापानयोरूधिोगती भवतः स प्रयत्नो जीवनयोनिसंज्ञको भवतीत्यर्थः (वै० उ० ३।२।४ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org