________________
२९४
न्यायकोशः। जिज्ञासायां धूमवत्त्वात् इत्युत्तरं च ( दीधि० हेतु० पृ० १७६ ) इत्यादौ । [ख] अवान्तरधर्मप्रकारकज्ञानेच्छा । इयं च विशेषजिज्ञासेत्युच्यते (ग० सव्य० ) । यथा घटे द्रव्यत्वेन ज्ञातेपि कोसौ इति विशेषतो जिज्ञासोदेति । [ग] विशेषज्ञानगोचरेच्छा। तच्च ज्ञानं स्वनिष्ठम् परनिष्ठं वा। तेन जल्पकथायां परं प्रति न प्रश्नानुपपत्तिः (ग० प्र० ३ पृ० ३४ ) । २ विचारः । यथा अथातो धर्मजिज्ञासा (जै० सू० १।१।१ ) ॐ अथातो ब्रह्मजिज्ञासा ॐ (७० सू० १।१।१ ) इत्यादौ । यथा वा दुःखत्रयाभिघाताजिज्ञासा तदवघातके
हेतौ ( सां० का० ) इत्यादी विचारो जिज्ञासापदार्थः । जिनः-अर्हन्नामकस्तत्त्वज्ञानोपदेष्टा । यथा हस्तिना पीड्यमानोपि न
गच्छेज्जैनमन्दिरम् इत्यादौ जिनः ( वाच०) । जिनलक्षणं तु सर्वदर्शनसंग्रहे उक्तम् । तद्यथा बलभोगोपभोगानामुभयोर्दानलाभयोः । अन्तरायस्तथा निद्रा भीरज्ञानं जुगुप्सितम् ॥ हिंसा रत्यरती रागद्वेषावविरति स्मरः । शोको मिथ्यात्वमेतेष्टादश दोषा न यस्य सः ॥ जिनो देवो गुरुः सम्यक्तत्त्वज्ञानोपदेशकः ( सर्व० सं० पृ० ८६-८७ आई० )। तन्मतादिकं तु स्याद्वादादिकम् जीवस्य देहपरिमाणरूपत्वनिरूपणादिकं च सर्वदर्शनसंग्रहे आहेतदर्शने अन्यजैनग्रन्थेषु च
द्रष्टव्यम् । जीवः-१ ( आत्मा )[क] यो घ्राणादीनां करणानां प्रयोक्ता स आत्मा
(वै० उ० ३।१।२ ) । जीवात्मैवायं क्षेत्रज्ञादिपदवेदनीयः ( सि० च० १ आत्म० पृ० १२ )। जीवलक्षणं च इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् (गौ० १।१।१०) इति । सुखदुःखादिकम् (त० दी० १ पृ० ११ ) इति वा । जन्यज्ञानाधिकरणत्वम् (सि० च० १ पृ० १२) इति वा । जीवसद्भावे प्रमाणं प्रत्यक्षमेव । जीवस्य अहं सुखी अहं दुःखी इत्यादिमानसप्रत्यक्षविषयत्वात् इति नैयायिकाः (प्र० प्र० प्रमे० पृ० १० ) ( मु० १ )। जीवो न मानसप्रत्यक्षविषयः इति वैशेषिका आहुः । अयमाशयः अहं सुखी इत्याद्याकारकम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org