________________
२९५
न्यायकोशः। योग्यविशेषगुणयोगेनैवात्मनः ( जीवस्य ) प्रत्यक्षम् न तु केवलम् अहम् इत्याकारकम् इति ( त० व० प्रमाणपरि० ३ श्लो० ५१ ) (मु० १ आत्म० पृ० १०७ ) (वै० ३।२।१८ ) (भा० ५० श्लो० ५०)। जीवस्य प्रत्यक्षत्वे विप्रतिपत्तौ तु अनुमानमेव इन्द्रियार्थभिन्नस्य जीवस्य सद्भावे प्रमाणम् । तत्र लिङ्गमुच्यते । प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्वात्मनो लिङ्गानि ( वै० ३।२।४ ) । सुषुप्तिदशायामपि प्राणापानयोरूधोगत्योरनुकूलं प्रयत्नान्तरम् जीवनयोनिरूपम् अस्त्येव इति । एवम् निमेषोन्मेषावपि शरीराधिष्ठातारमनुमापयतः इत्यादि (वै० उ० ३।२।४ )। आत्मेन्द्रियार्थसंनिकर्षाद्यन्निष्पद्यते तदन्यत् ( वै० ३।१।१८ ) । इच्छा प्रणिधानम् प्राणापानौ निमेषादिः क्षतसंरोहणम् इत्यादीनि लिङ्गानि आत्मानम् ( जीवात्मानम् ) गमयन्ति ( त० व० श्लो०२-१४ पृ० १३८) (भा०प० श्लो०.४८-५१)। इन्द्रियार्थ प्रसिद्धिरिन्द्रियार्थेभ्योर्थान्तरस्य हेतुः ( वै० ३।१।२ )। अनुमानप्रयोगस्तु रूपादिसाक्षात्कारो द्रव्याश्रितः गुणत्वाद्रूपवत् इत्यनुमानेनेतरबाधसहकृतेनात्मनः सिद्धिः (वै० वि० ३।१।२ )। प्रसिद्धिः कचिदाश्रिता कार्यत्वात् घटवत् गुणत्वाद्वा क्रियात्वाद्वा । सा च प्रसिद्धिः करणजन्या क्रियात्वात् छिदिक्रियावत् । यच्च प्रसिद्धेः करणं तदिन्द्रियम् । तच्च कर्तृप्रयोज्यम् करणत्वात् वास्यादिवत् । तथा यत्रेयं प्रसिद्धिराश्रिता यो घ्राणादीनां करणानां प्रयोक्ता स आत्मा (वै० उ० ३।१।२ )। बुद्धधादयः पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्याश्रिताः पृथिव्याद्यष्टद्रव्यांनाश्रितत्वे . सति गुणत्वात् यस्तु पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्याश्रितो न भवति नासौ पृथिव्याद्यष्टद्रव्यानाश्रितो गुणो भवति यथा रूपादि इति केवलव्यतिरेक्यनुमानम् (त० भा० प्रमेय० पृ० २५)। [ख] इन्द्रियाद्यधिष्ठाता । इन्द्रियाणां शरीरस्य च परंपरया चैतन्यसंपादक इत्यर्थः (मु० १ आत्म० पृ० ९६) । तत्रान्तरे तु इन्द्रियाणामधिष्ठान्यो देवता उक्ताः । ता यथा दिग्वातार्कप्रचेतोश्विवह्नोन्द्रोपेन्द्रमित्रकाः इति ( शारदाति० )। वैकारिका दिगाद्याश्च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org