________________
२९२
न्यायकोशः। समर्थः अवयवव्यङ्गयः सकृदुपदेशव्यङ्गथश्च धर्मविशेषः इत्याहुः । अत्रोच्यते । आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् । सकृदाख्यातनि ह्या गोत्रं च चरणैः सह ॥ इति (महाभा०)। आकृतिग्रहणेत्यस्य अनुगतसंस्थानव्यङ्ग्येत्यर्थः । यथा मनुष्यत्वपशुत्वघटत्वादिजातिः । लिङ्गानां च न सर्वभाक् सकृदाख्यातनि ।त्यस्य असर्वलिङ्गत्वे सति एकस्यां व्यक्तौ कथनाढ्यक्त्यन्तरे कथनं विनापि सुग्रहेत्यर्थः। यथा ब्राह्मणत्वक्षत्रियत्वादिजातिः। तत्र ब्राह्मणा द्विविधाः गौडद्राविडभेदात् । सारस्वताः कान्यकुब्जाः गौडा उत्कला मैथिलाश्चेति पञ्च गौडाः । गुर्जरा महाराष्ट्रीयाः कर्नाटकास्तैलंगाः केवलद्राविडाश्चेति पञ्च द्राविडाः । गोत्रं च चरणैः सहेत्यस्य अपत्यप्रत्ययार्थः शाखाध्येतृरूपश्चैतावर्थों जातिरित्यर्थः । यथा औपगवी कठी बर्षांची इति । [3] संबन्धिभेदात्सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥ तां प्रातिपदिकाथं च धात्वथं च प्रचक्षते । सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ॥ ( सर्व० सं० पृ० ३०४ पाणि० )। शुद्धसंकीर्णभेदेन प्रत्येकं द्विविधा ब्राह्मणत्वादि तिरिति मन्वादयः । आकृतिव्यङ्गयमेव सामान्य जातिरिति प्राभाकराः । तन्मते गुणकर्मणोर्जाति स्ति इति बोध्यम् (वै० वि० १।२।३ ) । २ स्वभाव इति काव्यज्ञाः । ३ मात्राकृतं छन्दो जातिरिति वृत्तशास्त्रज्ञाः । ४ दृष्टजातिशेषजातिविश्लेषजातिप्रभृतयः प्राचीनानामिष्टकर्मसंज्ञाभेदाः इति लीलावतीकाराः (वाच० ) । ५ जन्मेति धर्मज्ञाः । तत्रोक्तम् आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः । उत्पादयति सावित्र्या सा सत्या साजरामरा ॥ इति (मनु० अ० २ श्लो० १४८ )। ६ जातिवाचकः शब्दो जातिरिति शाब्दिकाः। ७ [क] साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः (गौ० १।२।१८) । तदर्थश्च व्याप्तिनिरपेक्षाभ्यां साधर्म्यवैधाभ्यां प्रत्यवस्थानं दूषणाभिधानं जातिः इति । व्याप्तिनिरपेक्षतया दूषणाभिधानमित्येव वाच्यम् । तेन च संदर्भण दूषणासमर्थत्वं स्वव्याघातकत्वं वा दर्शितम् (गौ० वृ. १२।१८ ) । अत्र चिन्त्यते । इयं च जातिर्हेत्वाभासदोषदेशनाभासा इति प्रतिभाति । इयं जातिनिरनु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org