SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः।। २९१ (वेदान्तप०)। केचिन्नैयायिकाश्च जहत्स्वार्थायामियं लक्षणान्तर्भवतीति नातिरिक्तेयं जहदजहत्स्वार्था लक्षणााङ्गीकर्तव्या इति मन्यन्ते । जहदजहल्लक्षणा–जहदजहत्स्वार्थावदस्यार्थीनुसंधेयः। जहल्लक्षणा–जहत्स्वार्थावदस्यार्थीनुसंधेयः । अत्र व्युत्पत्तिः जहत् स्वार्थो याम् इति ( वाच० ) । उत्तरपदस्य स्वार्थ इत्यस्य लोपः । जागरणम्-यथार्थप्रत्ययप्रवाहः ( न्या० ली० गु० पृ० ३१ )। जाघनी-पशुपुच्छम् (जै० सू० वृ० अ० ३ पा० ३ सू० २०)। जातिः- १ ( सामान्यम् ) [क] समानप्रसवात्मिका जाति: ( गौ० २।२।६८ ) । समानः समानाकारकः प्रसवो बुद्धिजननमात्मा स्वरूपं यस्याः सा । तथा च समानाकारबुद्धिजननयोग्यत्वमर्थः ( गौ० वृ० २।२।६८ )। तल्लक्षणं च प्रकारतया शब्दशक्तिग्रहविषयत्वम् । शक्तिसंबन्धेन जातिपदवत्त्वम् इति नैयायिकसिद्धान्तः । अत्र जाती व्यक्ती वा विशिष्ट वा समुदाये वा शक्तिरित्यत्र प्राभाकरादीनां विप्रतिपत्तयस्तावत् शक्तिशब्दव्याख्यानावसरे प्रदर्शयिष्यन्त इति तास्तत्रैवावलोकनीयाः । जातिबाधकानि षट् सन्ति । तथा चोक्तमुदयनाचार्येण व्यक्तेरभेदस्तुल्यत्वं संकरोथानवस्थितिः। रूपहानिरसंबन्धो जातिबाधकसंग्रहः ॥ इति (द्रव्यकिर० )। तदर्थश्च व्यक्त्यभेदादिशब्देषु द्रष्टव्यः । [ख] यञ्च केषांचिद्भदं कुतश्चिद्भेदं करोति तत् सामान्य विशेषो जातिरिति ( वात्स्या० २।२।६८ ) (वै० १।२।३ ) ( वै० उ० १।२।३ ) । [ग] समानाकारबुद्धिजननयोग्यधर्मविशेषः नित्यानेकसमवेतः इत्यपि वदन्ति ( गौ० वृ० २।२।६८ ) ( त० प्र० १)। यथा सामान्यपरिहीनास्तु सर्वे जात्यादयो मताः ( भा० ५० श्लो० १५) इत्यादौ । यथा वा संकेतो गृह्यते जातौ गुणद्रव्यक्रियासु च । संकेतितश्चतुर्भेदो जात्यादि तिरेव वा ( काव्यप्र० उ० २) असंपादयतः कंचिदर्थ जातिक्रियागुणैः ( माघ० स० २ श्लो० ४७ ) इत्यादौ द्रव्यत्वगुणत्वकर्मत्वादिर्जातिः । [५] शाब्दिकास्तु अनुगतैकाकारबुद्धिजनन Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy