________________
न्यायकोशः। परित्यागश्च शक्यार्थस्य येन केनापि रूपेण लक्ष्यार्थान्वयिना अनन्वयित्वम् । गां बाहीकं पश्येत्यादौ गोपदस्य गोसदृशे लक्षणायामपि न गोस्तदन्वयिदर्शनक्रियान्वयित्वम् ( ल० म०) । तेन गङ्गायां घोष इत्यत्र गङ्गातीरत्वेन बोधेपि जहत्स्वाथैव लक्षणा न त्वजहत्स्वार्थेति वदन्ति । मायावादिनस्तु शक्यार्थमनन्तर्भाव्य यत्रार्थान्तरस्य प्रतीतिः तत्र जहल्लक्षणा। यथा विषं भुकत्यादौ । अत्र स्वार्थ विहाय शत्रुगृहे
भोजननिवृत्तिर्लक्ष्यते ( वेदान्तप०)। ... जहदजहत्स्वार्था—( लक्षणा )[क ] यत्र वाच्यैकदेशत्यागेनैकदेशान्वय
स्तत्र जहदजहती लक्षणा । यथा सोयं देवदत्त इत्यादौ अयमात्मा तत्त्वमसि श्वेतकेतो ( छान्दो० ६८१७ ) इत्यादौ च (त० दी० ४ पृ० ३० ) ( नील० ४ पृ० ३० )। अत्र जहच्च अजहच्च स्वार्थो याम् इति व्युत्पत्तिर्द्रष्टव्या (वाच०)। सोयं देवदत्त इत्यादौ तत्तांशस्येदानीमसंभवाद्धानम् । इदंतांशस्य संभवादहानमिति जहदजहलक्षणामाचक्षते नैयायिकाः (नील० ४ पृ०, ३०)। तत्त्वमसीत्यादौ तु तत्पदवाच्ये सर्वज्ञत्वादिविशिष्टे चैतन्यै त्वंपदवाच्यस्य किंचिज्ज्ञत्वान्तःकरणादिविशिष्टस्याभेदान्वयानुपपत्त्या उभयत्र विशेषणांशपरित्यागः । तथा च तत्पदलक्ष्यस्य शुद्धचैतन्यस्य वंपदलक्ष्येण तेन सहाभेदान्वयोपपत्तिरित्यभिप्रायः । इदमुदाहरणं च जीवब्रह्मणोरैक्यं ब्रुवतां मायावादिनां सिद्धान्ताभिप्रायेणास्तीति विज्ञेयम् (नील० ४ पृ० ३० )। अत्र केचिदाहुः । यथा घटः अनित्य इत्यादावनित्यत्वम्य घटत्वादावन्वयायोग्यत्वेपि विशेष्ये घटेन्वयः तथात्रापि विशिष्टयोरभेदान्वयानुपपत्तावपि शक्त्युपस्थापितयोर्विशेष्यमात्रयोरभेदान्वयोपपत्तौ नात्र लक्षणा स्वीक्रियते इति ( वेदान्तप० )। [ख] वाच्यार्थैकदेशत्यागेनैकदेशवृत्तिलक्षणा ( वाच० )। [ग] मायावादिनस्तु यत्र विशिष्टवाचकः शब्दः एकदेशं विहायैकदेशे वर्तते तत्र जहदजहल्लक्षणेत्याहुः । उदाहरणं तु काकेभ्यो दधि रक्ष्यतामित्यादिकमेव । तत्र शक्यकाकत्वपरित्यागेनाशक्यदध्युपघातकत्वपुरस्कारेण काके अकाकेपि शब्दस्य प्रवृत्तेः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org