________________
न्यायकोशः।
२८९ जहत्स्वार्था—(लक्षणा) [क] यत्र वाच्यार्थस्यान्वयाभावस्तत्र जहती । यथा मञ्चाः क्रोशन्तीति ( त० दी० ४ पृ० ३० )। यथा वा आयुघृतम् इत्यादौ ( काव्यप्र० उ० २ )। अत्र व्युत्पत्तिः जहत् स्वार्थो याम् इति ( वाच० )। जहति पदानि स्वार्थं यस्यां सा जहत्स्वार्था (वै० सा० ) इति वा । अत्रायं नियमः । जहत्स्वार्था च तत्रैव यत्र रूढिविरोधिनी इति ( न्या० म० ख: ४ पृ० ११ ) : यत्र शक्यान्वयबोधे । रूढिः प्रसिद्धिः समुदायशक्तिर्वा । विरोधिनी योगविरोधिनी। योगः संबन्धः । मञ्चाः क्रोशन्तीत्यत्र वाच्यार्थस्य क्रोशनकर्तृत्वान्वयासंभवान्मञ्चपदं मञ्चस्थपुरुषे लाक्षणिकम् इति ( नील० ४ पृ० ३०)। आयुघृतमित्यत्रायुःशब्देनायुःसाधनस्य बोधनात्स्वार्थस्य शक्यार्थस्य आयुषस्त्यागाजहत्स्वार्थात्वमिति बोध्यम् । तथा चात्र आयुःसाधनं घृतम् इति बोधः । [ख] लक्ष्यतावच्छेदकरूपेण लक्ष्यमात्रबोधप्रयोजिका लक्षणा (न्या० बो० ४ पृ० २०)। यथा गङ्गायां घोष इत्यादी गङ्गापदस्य तीरे लक्षणा (मु० ४ पृ० १८० )। [ग] शक्यावृत्तिरूपेण बोधकतया जहत्स्वार्थत्युच्यते । यथा तीरत्वादिना गङ्गादिपदस्य बोधकत्वम् ( श० प्र०)। अत्रेदं बोध्यम् । गङ्गापदस्य शक्यार्थे प्रवाहरूपे घोषस्यान्वयानुपपत्तिस्तात्पर्यानुपपत्तिर्वा यत्र प्रतिसंधीयते तत्र लक्षणया तीरस्य बोधः इति । अत्रायं विशेषः । गङ्गापदशक्यप्रवाहसंबन्धस्य तीरे सत्त्वात्तादृशशक्यसंबन्धरूपलक्षणाज्ञानाद्गङ्गापदात्तीरोपस्थितिः (तीरस्मृतिः)। ततः शाब्दबोधः (मु० ४ पृ० १८० ) (न्या० बो० ४ पृ० २०) । अन्ये त्वाः। यदा गङ्गापदात्तीरत्वेन तीरमात्रबोधस्तदा जहत्स्वाथैव लक्षणा । यदा तु गङ्गापदाद्गङ्गातीरत्वेन गङ्गातीरबोधस्तदा अजहत्स्वार्था लक्षणा इति ( दि० ४ पृ० १८०)। एवमेव मञ्चाः क्रोशन्ति इत्यादावपि बोध्यम् । तर्कप्रकाशेप्युक्तम् । गङ्गायां घोष इत्यादौ स्वार्थस्य प्रवाहस्य त्यागात् तीरे घोषः इत्येव बोधः। यदि च गङ्गातीरत्वेन बोधः तदा अजहत्स्वाथैव इति (त० प्र० ख० ४ पृ० ३९)। [घ] स्वार्थपरित्यागेन परार्थलक्षणा ( त० प्र० ख० ४ पृ० ३९)। शाब्दिकाश्च शक्यार्थपरित्यागेन इतरार्थलक्षणा जहत्स्वार्था । शक्यार्थ३५ न्या० को.. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org